मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् ९

संहिता

आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् ।
ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना॑ उ॒षासः॑ ॥

पदपाठः

आ॒साम् । पूर्वा॑साम् । अह॑ऽसु । स्वसॄ॑णाम् । अप॑रा । पूर्वा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
ताः । प्र॒त्न॒ऽवत् । नव्य॑सीः । नू॒नम् । अ॒स्मे इति॑ । रे॒वत् । उ॒च्छ॒न्तु॒ । सु॒ऽदिनाः॑ । उ॒षसः॑ ॥

सायणभाष्यम्

स्वसॄणांपरस्परंस्वसृभावमापन्नानां स्वयंसरन्तीनांवापूर्वासांपुरातनीनां आसामुषसांमध्ये अहसु अहःसु प्रतिदिनंअपराअन्या अद्यतन्युषाः पूर्वांअतीतदिवससंबन्धिनीमुषसंपश्चात् अनुसृत्यअभ्येति अभिमुखंगच्छति अव्यवधानेनगच्छतीत्यर्थः सर्वेष्वहः सुएवमेवाभ्येति नव्यसीः नवीयस्यः नवतरा- आगामिन्यः ताउषासः उषसोऽपिनूनंनिश्चयं प्रत्नवत् पुरातन्यइव सुदिनाः शोभनकर्मानुष्ठानसाधन- दिवसाः शोभनदिनमुखावासत्यः अस्मेअस्माकंरेवत् बहुधनविशिष्टंयथाभवतितथाउच्छन्तु प्रकाश- यन्तु पूर्वतन्योयथौच्छन् तथा आगामिन्योऽपिउच्छन्त्वित्यर्थः ॥ ९ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः