मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् १०

संहिता

प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु ।
रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रय॑न्ती ॥

पदपाठः

प्र । बो॒ध॒य॒ । उ॒षः॒ । पृ॒ण॒तः । म॒घो॒नि॒ । अबु॑ध्यमानाः । प॒णयः॑ । स॒स॒न्तु॒ ।
रे॒वत् । उ॒च्छ॒ । म॒घव॑त्ऽभ्यः । म॒घो॒नि॒ । रे॒वत् । स्तो॒त्रे । सू॒नृ॒ते॒ । ज॒रय॑न्ती ॥

सायणभाष्यम्

हेमघोनि मघवति अस्मभ्यंदातव्यैर्बहुभिर्धनैस्तद्वति उषः हेउषोदेवि पृणतः हविः प्रदानस्मान्य- जमानान्प्रबोधयप्रज्ञापय प्रतिबुद्धान्कुरु किंच पण्यः व्ययासहिष्णवोवणिजः पणिर्वणिग्भवतीतिया- स्कः । पणयइतिलुब्धकाअबुद्भ्यमानाः यागादीनकुर्वाणाः अदानशीलाः अस्मच्छत्रवः ससन्तुस्वपन्तु दीर्घनिद्राभवन्तु म्रियन्तामित्यर्थः तथाचमन्त्रान्तरं—ससन्तुत्याअरातयोबोधन्तुशूररातयइति । किंच हेमघोनि अस्मद्दत्तहविर्भिस्तद्वति हेउषः मघवद्भ्यः हविर्लक्षणान्नवद्भ्योयजमानेभ्यः तेषामर्थं रेवत् धनवत् समृद्धिमत् उच्छविभाहि किंच हेसूनृते सुष्ठुमनुष्याणां नेत्रि देवि जरयन्तीसर्वप्राणिनः क्षपयन्तीत्वंस्तोत्रे स्तुतिकर्त्रेयजमानाय तदर्थंरेवद्धनवत् समृद्भ्यर्थंउच्छेतिशेषः ॥ १० ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः