मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् १२

संहिता

उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।
अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥

पदपाठः

उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ ।
अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥

सायणभाष्यम्

तेतवव्युष्टौसत्यां वयश्चित् गमनवन्तःपक्षिणोऽपि चिदित्येषोऽपिशब्दार्थः निपातानामनेकार्थ- त्वात् उच्चावचेष्वर्थेषुनिपतन्तीतियास्केनोक्तत्वात् वसतोर्निवासस्थानान्नीडादेरुत् ऊर्ध्वं अपप्तन् पतन्ति पूर्ववाक्येगृहंगृहमुपतिष्ठातेअग्निरित्युक्तत्वात्तदपेक्षयापिशब्दः किंच नरश्चमनुष्याश्च पितु- भाजः अन्नवन्तः अन्नार्थिनः कृषिवाणिज्यादिकर्तारः स्वस्वव्यापारार्थमुत् उन्मुखाः अपप्तन् गच्छ- न्ति तथाचमन्त्रान्तरं—पद्वदीयतउत्पातयतिपक्षिणइति । एवंव्युष्टौसत्यां हेदेवि देवनशीलेउषो- देवते अमागृहे देवयजनाख्ये सते तिष्ठते यजमानायतदार्थं अमेतिगृहनाम अमादमइतितन्नामसुपठि- तत्वात् यद्वा अमासहहूयमानेनाग्निनासह निवसतेयजमानाय अमावसेतामित्यादौ सहार्थेप्रयोगात् मर्त्यायमनुष्यायदाशुषेहविर्दत्तवतेयजमानाय भूरिवामं बहुशोभनं धनं वहसिप्रापयसि ॥ १२ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः