मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२५, ऋक् १

संहिता

प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते ।
तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू॑ रा॒यस्पोषे॑ण सचते सु॒वीरः॑ ॥

पदपाठः

प्रा॒तरिति॑ । रत्न॑म् । प्रा॒तः॒ऽइत्वा॑ । द॒धा॒ति॒ । तम् । चि॒कि॒त्वान् । प्र॒ति॒ऽगृह्य॑ । नि । ध॒त्ते॒ ।
तेन॑ । प्र॒ऽजाम् । व॒र्धय॑मानः । आयुः॑ । रा॒यः । पोषे॑ण । स॒च॒ते॒ । सु॒ऽवीरः॑ ॥

सायणभाष्यम्

अत्रेतिहासमाचक्षते—दैर्घतमसः कक्षीवान्नामऋषिः ब्रह्मचर्यंचरिष्यन् वेदाभ्यासायगुरुकुलेचिर- कालमुषित्वावेदान्सम्यगधीत्यव्रतानिचचरित्वातेनानुज्ञातः पुनःस्वगृहंप्रतिप्रयास्यन्मध्येमार्गेरात्रौ- विश्रान्तः प्रभातेभावयव्यस्यपुत्रः स्वनयोनामराजा अनुचरैः सहक्रीडमानोऽकस्मात्कक्षीवतोऽन्तिक- माससाद सचरभसाप्रतिबुद्धः सहसोत्तस्थौ तंचराजापाणिंगृहीत्वा स्वकीयमासनमुपवेश्यास्यसौन्द- र्यमवगत्यस्वकन्याप्रदानमनाः पप्रच्छ भगवन् कस्यपुत्रः किंनामात्वमिति सचपृष्टोमातरंपितरंचस्व- वृत्तान्तं आचचक्ष सचराजा संभाव्यइत्यवगत्यमुदितमनाः स्वगृहंप्राप्यास्मैमधुपर्कमारचय्यवस्त्रमा- ल्यादिभिः पूजयित्वा सरथादशकन्याः शतंनिष्कानश्वशतंपुंगवानां शतंगवांषष्ट्युत्तरसहस्रंपुनरेका- दशरथांश्चप्रादात् सचसर्वमनुक्रमेणप्रतिगृह्यदीर्घतमसोन्तिकमागत्यतस्मैप्रादर्शयत् ननुकक्ष्यानामा- श्वबन्धनीरज्जुस्तद्वान् कक्षीवान् अश्वबन्धनंचराज्ञएवोचितं अतोऽस्यराजन्यत्वात्प्रतिग्रहोनोपपद्यते याजनाध्यापनेचैवविशुद्धाच्चप्रतिग्रहइतिस्मरणात् तस्माद्ब्राह्मणस्यैवाधिकारोनतुक्षत्रियस्येति नैष- दोषः यद्यप्यसौकलिंगाख्यस्यराज्ञःपुत्रः तथापितेनकलिंगेनस्वयंवृद्धत्वादपत्योत्पादनायप्रेषितयारा- जमहिष्यातिजरठेनमहर्षिणासहरन्तुंलज्जमानयास्ववस्त्राभरणैरलंकृत्यस्वप्रतिनिधित्वेनप्रेषितामु- शिङ्गामिकांयोषितं दासीमित्यवगत्यमन्त्रपूतेनजलेनाभिषिच्यऋषिपुत्रींकृत्वातयासहरेमे तदुत्पन्नः कक्षीवान्नामऋषिः एतत्सर्वमस्माभिः पूर्वाध्याये नासत्याभ्यामित्यत्रसूक्तेविस्तरेणप्रतिपादितम् अतोस्यक्षत्रियसंबन्धात्कक्षीवानितिनामोपपन्नं दीर्घतमसः परमर्षेरुत्पन्नत्वेनब्राह्मणत्वात्प्रतिग्रहो- प्युपपन्नएव इदमादिसूक्तद्वयं स्वनयस्यराज्ञोदानप्रशंसाख्यानप्रतिपादकम् नन्वनुक्रमण्यांस्वनयस्य- दानस्तुतिरितिदानतुष्टोभावयव्यंतुविष्टेतिचोभयत्रस्तोतव्यंभिन्नमेवानुगम्यतइति उच्यते—उत्तर- सूक्तस्यप्रथमायामृचि अधिक्षियतोभाव्यस्येतिदातुर्भावयव्यस्यश्रूयमाणत्वात् तत्प्राथम्यमुपजीव्य- पृथगुपात्तं वस्तुतस्तुपितुर्नाम्नापुत्रस्यव्यवहर्तव्यत्वात् तथाआरुद्रासइत्यादौबहुशःप्रयोगदर्शनात् स्वनयेनदत्ताइति तत्रैवसूक्ते स्वनयस्यापिश्रूयमाणत्वाच्चोभयत्रापिदातृप्रतिग्रहीत्रोरेकत्वेनैकमेवदान- प्रशंसारूपंआख्यानमितिप्रसिद्धं सचकक्षीवानानीतंसर्वंपितुर्निवेदयन्परोक्षेणैवदानप्रकारंप्रशंसति स्वनयोनामराजाप्रातरित्वा प्रातरेवात्मनः सकाशमागतः सन् रत्नं रमणीयं निष्कादिकं प्रातःप्रभात- काले दधाति अस्मत्सन्निधौस्थापयतिददाति तंस्थापितंसर्वंचिकित्वान् चेतनावान् अदुष्टमित्यवगत- वान्प्रतिगृह्यस्वीक्रुत्यनिधत्ते पितुः समीपेस्थापयति अनन्तरं तेनदत्तेननिष्कादिना प्रजांपुत्रभृत्यादि- रूपांवर्धयमानः पोषयन् आयुर्जीवितंचवर्धयन्सुवीरः शोभनैः वीरैः पुत्रभृत्यादिभिरुपेतः सन् राय- स्पोषेणधनानां पुनः पुनः वर्धनेनसचतेसौराजासंगच्छतामितितवदातुराशिषंप्रार्थयते ॥ १ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०