मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२५, ऋक् ५

संहिता

नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति ।
तस्मा॒ आपो॑ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥

पदपाठः

नाक॑स्य । पृ॒ष्ठे । अधि॑ । ति॒ष्ठ॒ति॒ । श्रि॒तः । यः । पृ॒णाति॑ । सः । ह॒ । दे॒वेषु॑ । ग॒च्छ॒ति॒ ।
तस्मै॑ । आपः॑ । घृ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । तस्मै॑ । इ॒यम् । दक्षि॑णा । पि॒न्व॒ते॒ । सदा॑ ॥

सायणभाष्यम्

सोमयागप्रशंसाप्रसंगेनसामान्यतोदानमेतदादिभिस्त्रिभिः प्रशंसति यद्वा सोमस्यैवस्तुतत्वाद्दक्षि- णाशब्दस्ययागएवप्रसिद्धत्वाच्च सूक्तपरिसमाप्तेः सोमयागएवप्रस्तूयते यः योमर्त्यः पृणाति हविरा- दिदानेनदेवादीन्प्रीणाति सनाकस्य कमितिसुखनाम तद्विरुद्धमकं नविद्यते अकंदुः खंतत्साधनंपापं- चेति नाकोद्युलोकः तथाश्रूयते—नवाअमुंलोकंजग्मुषेकिंचनाकमिति । तस्यपृष्ठेउन्नते उपरिदेशेश्रितं- सन्नधिअधिकं आकल्पान्तंतिष्ठति यद्वा अधितिष्ठति अधिष्ठायप्रमुखोभूत्वातिष्ठति नकेवलंस्वर्गाश्रयणं किंतु देवेषुमध्येगच्छतिवर्तते स्वयमेवदेवोभवतीत्यर्थः हेतिप्रसिद्धौ तस्मैप्रीणयित्रे पुरुषायसिन्धवः स्यन्दनशीलाः आपः घृतंतेजोवत्सारं अषंन्ति गच्छन्ति रसवत्योभवन्तीत्यर्थः किंचेयंभूमिरपि दक्षि- णासस्यादिफलसंपादनदक्षासती सदा सर्वकालं पिन्वते सेचयति तोषयतीत्यर्थः दातुः जीवनसाध- नान्नोदकानि रुचिराणिसमृद्धानिभवन्तीत्यर्थः ॥ ५ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०