मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२५, ऋक् ६

संहिता

दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या॑सः ।
दक्षि॑णावन्तो अ॒मृतं॑ भजन्ते॒ दक्षि॑णावन्त॒ः प्र ति॑रन्त॒ आयु॑ः ॥

पदपाठः

दक्षि॑णाऽवताम् । इत् । इ॒मानि॑ । चि॒त्रा । दक्षि॑णाऽवताम् । दि॒वि । सूर्या॑सः ।
दक्षि॑णाऽवन्तः । अ॒मृत॑म् । भ॒ज॒न्ते॒ । दक्षि॑णाऽवन्तः । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

सायणभाष्यम्

दक्षिणावतां बहुविधगोहिरण्यादिरूपदक्षिणाप्रदातॄणांइच्छब्दएवकारार्थः तेषामेवार्थे इमानिभू- मौदृश्यमानानिचित्राणिचायनीयानिस्रक् चंदनमणिमुक्तादिरूपाणिद्रव्याणि समृद्धानि भवन्तीतिशे- षः किंच दक्षणावतामेवदिविद्युलोकेसूर्यासः सूर्यसंबन्धिनोलोकाः तदनुगृहीताभोगावा समृद्धाभव- न्ति किंच दक्षिणावन्तएवअमृतंजरामरणरहितंस्थानं भजन्तेसेवन्ते यद्वा दानेनापहतपाप्मानआत्मा- नंविदित्वा अमृतमविनाशंमोक्षं भजन्ते प्राप्नुवन्ति यज्ञेनदानेनेतिश्रुतेः । किंच दक्षिणावन्तएवआयुः प्रतिरन्ते अतिदीर्घमायुष्यंलभंते वर्धयन्ति प्रपूर्वस्तिरतिर्वर्धनार्थः इदितिसर्वत्रसंबध्यते ॥ ६ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०