मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२६, ऋक् २

संहिता

श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म् ।
श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥

पदपाठः

श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् ।
श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥

सायणभाष्यम्

नाधमानस्य स्वीकर्तव्यमित्युच्चैर्याचमानस्य असुरस्य धनानां निरसितुः दानशीलस्य राज्ञः स्वते- जसा दीप्यमानस्य स्वनयस्य निष्कान्आभरणविशेषान् इयत्ताविशेषविशिष्टानि वासुवर्णानि शतं शतसंख्याकानि शतंसहस्रमित्यपरिमितवचनः अपरिमितान् सद्यः प्रार्थनानन्तरमेव कक्षीवानहंआदं आत्तवानस्मि स्वीकृतवानस्मीत्यर्थः तथाप्रयतान् शुद्धान् लक्षणोपेतानश्वानध्वगमनसमर्थान्हयान् शतं शतसंख्याकान् आदं आत्तवान् तथा गोनां पुंगवानां बलीवर्दानामित्यर्थः उत्तरमन्त्रेस्त्रीगवीनाम- भिधानात् तेषांशतंआदं एवंप्रदाताराजा दिवि द्युलोके श्रवः कीर्ति अजरंशाश्वतींआततान विस्तारि- तवान् गवादिप्रतिग्रहीताहं स्वर्गेकीर्तिमकरवमित्यर्थः ॥ २ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११