मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२६, ऋक् ३

संहिता

उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः ।
ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥

पदपाठः

उप॑ । मा॒ । श्या॒वाः । स्व॒नये॑न । द॒त्ताः । व॒धूऽम॑न्तः । दश॑ । रथा॑सः । अ॒स्थुः॒ ।
ष॒ष्टिः । स॒हस्र॑म् । अनु॑ । गव्य॑म् । आ । अ॒गा॒त् । सन॑त् । क॒क्षीवा॑न् । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् ॥

सायणभाष्यम्

स्वनयेनदत्ताः श्यावाः तद्वर्णाश्वैर्युक्तत्वात् श्यावाः वधूमन्तः आरूढाभिर्वधूभिः तद्वन्तः दश एत- त्संख्याकाः श्यासोरथाः मामांउपास्थुः उपस्थिताः गव्यशब्दोगोसमूहवाची षष्टिः सहस्रमनुगव्यं षष्ट्यधिकंगवांसमूहः अन्वगात् अनुक्रमेणआगतः ततः आत्मानं परोक्षेणब्रवीति तत्सर्वंप्रतिगृह्यायं- कक्षीवान् अह्नांदिवसानां मध्येअभिपित्वे संनिहितेऽहनि सनत् स्वीकृतं रथवध्वादिकंस्वपित्रे सम- र्पयति स्वयंवास्वीकरोति अभिपित्वशब्दआसन्नकालवाची प्रपित्वशब्दवत् सच प्रपित्वेअभीकइत्या- सन्नस्येतियास्केनोक्तत्वादासन्नवचनः उपसर्गभेदेऽप्यर्थाभेदः ॥ ३ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११