मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२६, ऋक् ५

संहिता

पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः ।
सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्त॒ः श्रव॒ ऐष॑न्त प॒ज्राः ॥

पदपाठः

पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रिऽधा॑यसः । गाः ।
सु॒ऽबन्ध॑वः । ये । वि॒श्याः॑ऽइव । व्राः । अन॑स्वन्तः । श्रवः॑ । ऐष॑न्त । प॒ज्राः ॥

सायणभाष्यम्

इदानीं आनीतंधनंबन्धुभ्क्योनिवेदयन्नाह हेसुबन्धवः पूर्वांप्रयतिं पूर्वंप्रदानंअनु तमनुसृत्य वक्ष्य- माणानि रथादीनि युष्मदर्थं आददे स्वीकृतवानस्मि यद्वा पूर्वां प्रयतिं प्रदेयंरथादिकं अनु दानक्रमेणैव आददे प्रतिगृहीतवानस्मि कानितानीति त्रीनष्टौचयुक्तान् चतुर्भिश्चतुर्भिरश्वैर्धनैर्वायुक्तान्रथानितिशे- षः अत्रसंख्यापृथक् निर्देशोनविवक्षितः तथा अरिधायसः अरिभिरीशरैर्धारणीयाः बहुमूल्याअसं- ख्यातागाश्चाददे अत्रवक्ष्यमाणानि पूर्वं प्रतिगृहीतादधिकानीतियुक्तं पूर्वमेवपित्रेनिवेदितानां पुनर्ब- न्धुभ्योनिवेदनासंभवात् वधूमन्तोदशरथासोअस्थुरिति दशानां रथानामुक्तत्वादत्रचत्रीनष्टावित्येका- दशानांवक्ष्यमाणत्वाद्वधूविशिष्टानामन्येभ्योदातुमनुचितत्वाच्चान्यानीतियुक्तम् उक्तानामेवानुवदन- पक्षेदशवधूयुक्तारथाः एकोधनपूर्णइतिविवेकः उक्तानामेवरथादीनांपुनरभिधानं प्रकृष्टत्वज्ञापनार्थं सर्वेब्राह्मणाआगताः वसिष्ठश्चागतइतिवत् इदानीं परोक्षेणाह सुबन्धवः शोभनाविद्यायोनिसंबन्धि- नोयेषांतेतथोक्ताः यद्वा शोभनबान्धवोपेताः परस्परमनुरागयुक्ताइत्यर्थः विशः प्रजाः तत्रभवावि- श्याः व्रियन्तइतिव्राः व्राताः तकारलोपश्छान्दसः विशांव्रातायथापरस्परमनुरागवन्तः तथैवैतेअपी- त्यर्थः पज्राः अन्नवन्तः अङ्गिरसः सन्तानप्रभवायेसन्ति ते सर्वेसुबन्धवः अनस्वन्तः शकटवन्तः ह- विर्धानशकटोपलक्षितसोमयागवन्तः सन्तः श्रवः सर्वत्रश्रूयमाणांकीर्तिं ऎषन्त इच्छन्ति इच्छन्तु वा तदर्थमाददइतिशेषः ॥ ५ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११