मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२६, ऋक् ७

संहिता

उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः ।
सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी॑णामिवावि॒का ॥

पदपाठः

उप॑ऽउप । मे॒ । परा॑ । मृ॒श॒ । मा । मे॒ । द॒भ्राणि॑ । म॒न्य॒थाः॒ ।
सर्वा॑ । अ॒हम् । अ॒स्मि॒ । रो॒म॒शा । ग॒न्धारी॑णाम्ऽइव । अ॒वि॒का ॥

सायणभाष्यम्

रोमशानामबृह पतेःपुत्रीब्रह्मवादिनीपरिहसन्तंस्तपतिंप्रत्याह—भोःपते मेमां द्वितीयार्थे चतुर्थी उपोप द्वितीयउपशब्दःपादपूरणः उपेत्य परामृश सम्यक्स्प्रुश भोगयोग्यामवगच्छेत्यर्थः यद्वा मेमम गोपनीयमंगंउपोपपरामृश अत्यन्तमान्तरंस्पृश परामर्शभावशङ्कांनिवारयति मेमदङ्गामो रोमा- णिदभ्राणि मामन्यथाः अल्पानि माबुध्यरव दभ्रमर्भकमित्यल्पस्येतिदभ्रंदभ्रोतिरितियास्कः । अदभ्र- त्वमेवविशदयति अहंरोमशाबहुरोमयुक्तास्मि यतोऽहमीदृशीअतः सर्वा संपूर्णावयवास्मि रोमशत्वे- दृष्टान्तः—गन्धारीणामविकेव गंधारादेशाः तेषांसंबन्धिन्यविजातिरिव तद्देशस्थाअतयोगेत्रायथारो- मशाः तथाहमस्मि यद्वा गन्धारीणां गर्भधारिणीनां स्त्रीणांअविका अत्यर्थंतर्पयन्तीयोनिरिव तासां आप्रसवंरोमादिविकर्तनस्यशास्त्रनिषिद्धत्वात् योनिः रोमशाभवति अतः सोपमीयते यतोऽहगीदृशी- अतोमांअप्रौढांमावबुध्यस्वेत्यर्थः ॥ ७ ॥

एकोनविंशेनुवाकेसप्तसूक्तानि तत्र अग्निंहोतारमितिप्रथमंसूक्तमेकादशर्चं दिवोदासपुत्रस्य परु- च्छेपस्यार्षं आग्नेयं आत्यष्टं सहिशर्धइत्यस्याः षट्सप्तत्यक्षरातिधृतिः उत्कृत्यभिकृतिसंकृतिविकृत्या- कृतिप्रकृतिकृत्यतिधृतिधृत्यत्यष्टिषुचतुरुत्तरशताक्षरमारभ्यचतुर्णींचतुर्णांपरित्यागेनैकैकमुक्तंछन्दो- जायते तथासत्यत्यष्ट्यतिधृतीउक्तसंख्योपेतेस्यातां एतत्सर्वंछंदोग्रन्थे चतुःशतमुत्कृतिरित्यादिसूत्रैः प्रतिपादितं तथाचानुक्रान्तं—अग्निमेकादशपरुच्छेपोदैवोदासिराग्नेयंतुपारुच्छेपंसर्वमात्यष्टंतत्रातिधृ- तिः षष्ठीति । सूक्तस्यविशेषविनियोगोलैंगिकः दशरात्रस्यषष्ठेहनिप्रातः सवनेप्रस्थितयाज्यानां पुर- स्तादन्याऋचेःकृत्वा प्राकृताभिश्चसहयष्टव्यं तत्राग्नीध्रस्यैषाप्रथमा षष्ठस्यघातः सवनइतिखण्डेसूत्रि- तम्—अग्निंहोतारंमन्येदास्वन्तंदध्यङ्हमेजनुषंपूर्वोअङ्गिराइति ।

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११