मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२७, ऋक् १०

संहिता

प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑ ।
प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे ।
अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ॥

पदपाठः

प्र । वः॒ । म॒हे । सह॑सा । सह॑स्वते । उ॒षः॒ऽबुधे॑ । प॒शु॒ऽसे । न । अ॒ग्नये॑ । स्तोमः॑ । ब॒भू॒तु॒ । अ॒ग्नये॑ ।
प्रति॑ । यत् । ई॒म् । ह॒विष्मान् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ।
अग्रे॑ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः॑ । होता॑ । ऋ॒षू॒णाम् ॥

सायणभाष्यम्

हेउद्गात्रादयः स्तोतारः वोयुष्माकंसंबन्धिस्तोमः स्तोत्रंअग्नयेप्रबभूतु प्रीणयितुंसमर्थंभवतु छान्द- सःशपःश्लुः अत्वंचाभ्यासस्य भूसुवोस्तिङीतिगुणाभावःकीदृशायाग्नये महेमहतेपूज्याय सहसा परा- भिभवसामर्थ्येन सहस्वते तद्वते उषर्बुधे उषः कालेप्रबुध्यमानाय अहरादीनांपत्यादिषूपसंख्यानमि- तिरुत्वं पशुषेपशुफलदाय नशब्दोऽत्रापिशब्दार्थः यद्वा पशुषेपशुप्रदात्रेप्रभवेयथास्तुतिः क्रियतेतद्वत् किमर्थमितितदुच्यते-ईंएनमग्निंप्रति लक्षीकृत्यहविष्मान् घृतादिप्रवृद्धहविर्युक्तोयजमानः विश्वासु- क्षासु सर्वासुनिवासभूतासुवेदिभूमिषु जोगुवे अत्यर्थंगच्छति गुवतेर्यङ्लुगन्ताच्छानदसोलिट् व्यत्य- येनात्मनेपदं अमन्त्रेइतिपर्युदासादामभावः क्षेतिभूनाम क्षाक्षामेति तन्नामसुपाठात् ऋषूणां आगन्तॄ- णां देवानांमध्येश्रेष्ठमग्निं जूर्णिः स्तुतिकुशलोहोता अग्रे इतरदेवेभ्यःपूर्वंजरतेस्तौति तत्रदृष्टान्तः— ऋषूणांमहतांधनवतां अग्रेरेभोन बन्दीव ऋषीगतौ औणादिकः कुप्रत्ययः नामन्यतरस्यामितिनाम- उदात्तत्वम् यद्वा ऋषूणामित्येतद्धोतृविशेषणं ऋषूणांज्ञानवतांमध्येश्रेष्ठोयंहोतेत्यर्थः ॥ १० ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३