मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२८, ऋक् ४

संहिता

स सु॒क्रतु॑ः पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति ।
क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे ।
यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥

पदपाठः

सः । सु॒ऽक्रतुः॑ । पु॒रःऽहि॑तः । दमे॑ऽदमे । अ॒ग्निः । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । य॒ज्ञस्य॑ । चे॒त॒ति॒ ।
क्रत्वा॑ । वे॒धाः । इ॒षु॒ऽय॒ते । विश्वा॑ । जा॒तानि॑ । प॒स्प॒शे॒ ।
यतः॑ । घृ॒त॒ऽश्रीः । अति॑थिः । अजा॑यत । वह्निः॑ । वे॒धाः । अजा॑यत ॥

सायणभाष्यम्

सोऽग्निः सुक्रतुः शोभनकर्मा पुरोहितः पुरोधार्यमाणः यद्वा पुरोहितवद्यागनिर्वहकः सन् दमेदमे तत्तद्यजमानगृहेसर्वेषुदेवयजनेषुवाअध्वरस्यनाशरहितस्यफलप्रदस्ययज्ञस्य तदर्थं चेततिजानाति- प्रबुध्यतइत्यर्थः किंचायंयजमानोऽपि क्रत्वाशोभनेनकर्मणा यज्ञस्यचेतति कर्तव्यतामेवजानाति किंचायमग्निरपि क्रत्वाप्रकृष्टेनकर्मणा वेधाः विविधानांफलानांकर्तासन् इषूयते इष्यतइतीषुरन्नमाग- मनंवा तदिच्छते यजमानायतदर्थं विश्वाजातानिसर्वाणि संपादितानिहविरादीनिपस्पशे अत्यर्थंस्पृ- शति स्वीकरोति यतोयं घृतश्रीः घृतंसेवमानः अतिथिः अतिथिवत्पूज्यश्च अजायत उत्पन्नः यतःका- रणाद्घृतमत्यर्थंसेवमानः प्रवृद्धोभवत् अतः स्पशइत्यर्थः एवमग्नौप्रवृद्धे यजमानोपि वह्निः हविषां- वोढा वेधाः विविधस्यफलस्यकर्ताउत्पादयिता अजायत समर्थोऽभवत् ॥ ४ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४