मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२८, ऋक् ५

संहिता

क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृ॒ञ्चते॒ऽग्नेरवे॑ण म॒रुतां॒ न भो॒ज्ये॑षि॒राय॒ न भो॒ज्या॑ ।
स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू॑नां च म॒ज्मना॑ ।
स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुत॒ः शंसा॑द॒घाद॑भि॒ह्रुतः॑ ॥

पदपाठः

क्रत्वा॑ । यत् । अ॒स्य॒ । तवि॑षीषु । पृ॒ञ्चते॑ । अ॒ग्नेः । अवे॑न । म॒रुता॑म् । न । भो॒ज्या॑ । इ॒षि॒राय॑ । न । भो॒ज्या॑ ।
सः । हि । स्म॒ । दान॑म् । इन्व॑ति । वसू॑नाम् । च॒ । म॒ज्मना॑ ।
सः । नः॒ । त्रा॒स॒ते॒ । दुः॒ऽइ॒तात् । अ॒भि॒ऽह्रुतः॑ । शंसा॑त् । अ॒घात् । अ॒भि॒ऽह्रुतः॑ ॥

सायणभाष्यम्

यद्यस्मात्कारणात्सर्वेयजमानाः क्रत्वाप्रकृष्टेनकर्मणा हविःप्रदानादिरूपेण अस्याग्नेः तविषीषु प्रबलासु ज्वालासु अवेन तृप्तिनिमित्तेनभोज्या भक्ष्याणि पुरोडाशादीनि पृञ्चते मिश्रयन्ति तविषी- तिबलनाम तविषीशुष्ममिति तन्नामसुपाठात् तत्रदृष्टान्तः—मरुतांनभोज्वा वायूनांसंबन्धीनिव्री- ह्याद्यन्नानीव वायुषुमेघंनिर्भिद्यवृष्टिंजनयत्सुसत्सुसस्यादिद्वाराव्रीह्यादिभोज्यानियथापृंचतेतथेत्यर्थः दानेदृष्टान्तः—इषिरायनभोज्या एषणयुक्ताययाचमानायार्थिनेभोज्या भोग्यानिभक्ष्यादीनियथा- दीयन्ते तद्वत् इषिर् श्ब्दोयास्केनैवंनिरुक्तः—ईषणेनवैषणेनवार्षणेनवेति । अतःकारणात् सहिस्म सखलुयजमानः दानमिन्वति हविः प्रदानं तस्मैव्याप्नोति यद्वा स्वयमभिमतंदानमिन्वति इन्वतिर्व्या- प्तिकर्मा इन्वतिनक्षति इतितत्कर्मसुपाठात् केनसामर्थ्येनेति वसूनांचमज्मना निवासयाग्योनांधनानां अग्निनालब्धानां बलेनैव यद्वा सोऽग्निः वसूनां हविर्निवासोग्यानां ज्वालारूपाणां धनानां मज्मना- बलेन दानमिन्वतीतिशेषः किंच सोऽग्निः अभिह्रुतः आभिमुख्येनपापैः ह्रियमाणान् नोऽस्मान्दुरितात् पापात् त्रासते त्रायतेतथाशंसात् अतिप्रभूतत्वेनशंसनीयात् यद्वा हिंसकात् अभिह्रुतः अभितोह्रियमाणात् अघात् दुःखात् तत्कारणात् पापाद्वा त्रासते त्रायते ॥ ५ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४