मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२९, ऋक् १

संहिता

यं त्वं रथ॑मिन्द्र मे॒धसा॑तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि ।
स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन॑म् ।
सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसा॑म् ॥

पदपाठः

यम् । त्वम् । रथ॑म् । इ॒न्द्र॒ । मे॒धऽसा॑तये । अ॒पा॒का । सन्त॑म् । इ॒षि॒र॒ । प्र॒ऽनय॑सि । प्र । अ॒न॒व॒द्य॒ । नय॑सि ।
स॒द्यः । चि॒त् । तम् । अ॒भिष्ट॑ये । करः॑ । वशः॑ । च॒ । वा॒जिन॑म् ।
सः । अ॒स्माक॑म् । अ॒न॒व॒द्य॒ । तू॒तु॒जा॒न॒ । वे॒धसा॑म् । इ॒माम् । वाच॑म् । न । वे॒धसा॑म् ॥

सायणभाष्यम्

हेइन्द्र इषिर यज्ञगमनशील त्वंमेधसातये यज्ञस्यदानाय लाभायवा यं यजमानं प्रतिरथं प्रणयसि प्रापयसि द्विकर्मकोयं कीदृशं यजमानं अपाका अपाकं अनल्पप्रज्ञयाधिकारवन्तं पाकःपक्तव्योभवती- तियास्कः । अतएव सन्तं पण्डितंसन्तं किंच हेअनवद्य अनिन्दित यं यजमानं धनविद्यादिनाप्रणयसि प्रकृष्टंनयसि तं यजमानं सद्यश्चित् तदानीमेव तदनुग्रहकालएव अभिष्टये आभिमुख्येनयागाय अभि- मतप्राप्तयेवा अभिपूर्वादिषेःक्तिन् शकंध्वादित्वात्पररूपत्वं गतिरनन्तरइतिगतेः प्रकृतिस्वरत्वं करः समर्थंकरोषि लेटिव्यत्ययेनशप् एवंकृत्वाच वाजिनं हविर्लक्षणमन्नंतद्वन्तं वावशः कामयसेच वष्टेर्ले- ट्यडागमः तिङः परत्वादनिघातः यजमानेनआहूतः सन् शीघ्रमेवागत्य हविःस्वीकृत्य यागंसाधुनि- र्वर्त्य तंचाभिमतफलेनसंयोज्य पुनर्हविः स्वीकरोषीत्यर्थः हेइन्द्र अनवद्यअनिन्दित सर्वैः स्तूयमान तूतुजान अस्माननुग्रहीतुं त्वरमाण तुजेः प्रेरणार्थाल्लिटः कानच् तुजादीनांदीर्घोभ्यासस्येत्यभ्यास- स्यदीर्घत्वम् सत्वं सोचिलोपेचेदितिसंहितायांसोर्लोपः सत्वं वेधसां विविधफलकर्तॄणांमध्येश्रेष्ठतया वेधसां मेधाविनां अस्माकं संबन्धिहविः स्वीकुर्वित्यर्थः तत्रदृष्टान्तः—इमांवाचंन अस्मदीयांस्तु- तिरूपांवाचमिव स्तुतिंयथास्वीकरोषितथाहविरपीत्यर्थः ॥ १ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६