मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२९, ऋक् ९

संहिता

त्वं न॑ इन्द्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑ ।
सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ ।
पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भि॒ः सदा॑ पाह्य॒भिष्टि॑भिः ॥

पदपाठः

त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । परी॑णसा । या॒हि । प॒था । अ॒ने॒हसा॑ । पु॒रः । या॒हि । अ॒र॒क्षसा॑ ।
सच॑स्व । नः॒ । प॒रा॒के । आ । सच॑स्व । अ॒स्त॒म्ऽई॒के । आ ।
पा॒हि । नः॒ । दू॒रात् । आ॒रात् । अ॒भिष्टि॑ऽभिः । सदा॑ । पा॒हि॒ । अ॒भिष्टि॑ऽभिः ॥

सायणभाष्यम्

हेइन्द्र त्वंनः पथास्मत्संबन्धिनामार्गेण पुरायाहिआगच्छ भस्यटेर्लोपः उदात्तनिवृत्तिस्वरेणतृती- यायाउदात्तत्वं कीदृशेनमार्गेणअनेहसा अपापेन यज्ञगमनमार्गस्यश्रुतिचोदितत्वादनेहस्त्वं यद्वा नोऽ– स्मानुद्दिश्ययाहि किंविशिष्टइति परीणसा परितोनद्धेन रायाअस्मभ्यंदातव्येनबहुविधधनेनयुक्तःसन् हेइन्द्र नोऽस्मान् पराके अत्यन्तदूरदेशात् स्वर्गलक्षणात् आसचस्वसमवेतोभव पराकइतिदूरनाम प- राकेपराचैरितितन्नामसुपाठात् तथा अस्तमीके अत्यन्तान्तिकेदेवयजनदेशे सचस्व अस्मत्प्रत्तंहविः सेवस्व संगच्छस्ववा किंच नोऽस्मान्दूरात् दूरदेशात्स्वर्गादेः सकाशात्पाहि रक्ष आरात्संनिहितादिह- लोकात् पाहिपालय यद्वा दूरात् अयागकालेस्वर्गएवोषित्वास्मान्पाहि पालयआरात् यागकाले संनि- हितेदेवयजनदेशे पाहि केनेतितदुच्यते—अभिष्टि भिः अभिमुखैर्यागैः तन्निर्वाहैः यद्वा अभ्यागमनैः किंबहुना स्दासर्वकालं यागकालेअयागकालेदूरे अन्तिकेचअभिष्टिभिः अभितएषणैः पाहि सम्यक्प- रिपालय ॥ ९ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७