मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३०, ऋक् ५

संहिता

त्वं वृथा॑ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा॑ समु॒द्रम॑सृजो॒ रथाँ॑ इव वाजय॒तो रथाँ॑ इव ।
इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् ।
धे॒नूरि॑व॒ मन॑वे वि॒श्वदो॑हसो॒ जना॑य वि॒श्वदो॑हसः ॥

पदपाठः

त्वम् । वृथा॑ । न॒द्यः॑ । इ॒न्द्र॒ । सर्त॑वे । अच्छ॑ । स॒मु॒द्रम् । अ॒सृ॒जः॒ । रथा॑न्ऽइव । वा॒ज॒ऽय॒तः । रथा॑न्ऽइव ।
इ॒तः । ऊ॒तीः । अ॒यु॒ञ्ज॒त॒ । स॒मा॒नम् । अर्थ॑म् । अक्षि॑तम् ।
धे॒नूःऽइ॑व । मन॑वे । वि॒श्वऽदो॑हसः । जना॑य । वि॒श्वऽदो॑हसः ॥

सायणभाष्यम्

हेइन्द्र त्वंवृथाअप्रयत्नेनैवनद्यः नदीः समुद्रमच्छाभिमुख्येन सर्तवेप्राप्तुंअसृज्ः मेघंनिर्भिद्योत्पादि- तवानसि तत्रदृष्टान्तः—रथानिव यथात्वंरथानस्मद्यागंप्रतिअच्छसर्तवे आभिमुख्येन प्राप्तुंअसृजःसृष्ट- वानसितद्वत् किंच वाजयतोरथानिव संग्राममन्नंवाइच्छन्तोराजादयः रथानिव तेयथासंग्रामंप्रत्योष- ध्यादिकंवाभिसर्तुंरथान्सृजन्ति तद्वत् क्यजन्ताच्छतुरनुमइतिविभक्तेरुदात्तत्वं किंच इतः अस्मत्संनि- धिदेशं द्वितीयार्थेतसिल् अस्मान्प्रतिऊतीः ऊत्यः गमनवत्योरक्षणवत्योवानद्यः समानमर्थं समानप्र- योजनवदक्षितमुदकं अयुंजतयोजितवत्यः त्वत्प्रसादादिति भावः अर्थशब्दौदकविशेषणःसन् नपुंसक- लिंगः अक्षितमित्युदकनाम अक्षितंबर्हिरितितन्नामसुपाठात् तत्रदृष्टान्तः—मनवेमनोरर्थायधेनूरिव- धेनवोयथाविश्वदोहसः सार्वार्थदोग्ध्र्योभवन् यथा वा जनाय यस्मैकस्मैचित् समर्थाय तदर्थंविशदो- हसोभवन्ति सर्वक्षीरप्रदाभवन्ति यद्वा जनाय सर्वजनार्थं सस्यादीनभिलक्ष्यनद्यः विशदोहसः संपूर्ण- दोग्ध्र्योभवन्ति सर्वत्रप्रवहन्ति अत्रनद्यः प्रीणनात् दोहसइतिउपचर्यते ईदृग्जगदुपकारिवृष्टिप्रदइती- न्द्रस्यैवस्तुतिः ॥ ५ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८