मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३०, ऋक् ६

संहिता

इ॒मां ते॒ वाचं॑ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीर॒ः स्वपा॑ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः ।
शु॒म्भन्तो॒ जेन्यं॑ यथा॒ वाजे॑षु विप्र वा॒जिन॑म् ।
अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना॑नि सा॒तये॑ ॥

पदपाठः

इ॒माम् । ते॒ । वाच॑म् । व॒सु॒ऽयन्तः॑ । आ॒यवः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्षि॒षुः॒ । सु॒म्नाय॑ । त्वाम् । अ॒त॒क्षि॒षुः॒ ।
शु॒म्भन्तः॑ । जेन्य॑म् । य॒था॒ । वाजे॑षु । वि॒प्र॒ । वा॒जिन॑म् ।
अत्य॑म्ऽइव । शव॑से । सा॒तये॑ । धना॑ । विश्वा॑ । धना॑नि । सा॒तये॑ ॥

सायणभाष्यम्

हेइन्द्र तेत्वदर्थं वसूयन्तोधनमात्मनइच्छन्तःआयवः दातव्यहवीरूपान्नवन्तऋत्विजः आयवइति- मनुष्यनाम आयवः अनवइतितन्नामसुपाठात् तेइमांक्रियमाणांस्तुतिरूपांवाचं अतक्षिषुः संपादितव- न्तः तत्रदृष्टान्तः—स्वपाः शोभनकर्मवान् कुशलीवा बहुव्रीहौसोर्मनसीइत्युत्तरपदाद्युदात्तत्वम् धीरः धीमान् रथंन रथमिव तंयथाप्रयत्नेनसाधुकरोति तद्वत् एवंकृत्वात्वांसुम्नायसुखायअतक्षिषुः अनुकूल- मुत्पादयन्ति सुम्नमितिसुखनाम सुम्नंसुग्म्यमितितन्नामसुपाठात् किंच हेविप्रमेधाविन्निन्द्र वाजेषुसं- ग्रामेषुयथोत्साहयंन्ति तद्वत् किंच शवसेबलाय धना धनानांसातयेलाभायचस्तुमइतिशेषः ऊतियू- तिजूतिसातीत्यादिनाक्तिनउदात्तत्वं नकेवलंधनमात्रं किंतु विश्वाधनानिसातयेकृत्स्नानिप्रीणनसाध- नानिगवादिधनानि षष्ठ्यर्थेद्वितीया तेषांलाभाय तत्रदृष्टान्तः—धना धने संग्रामेशवसेवैरिजयसाध- नबलाय सातयेतेषामेवधनानांप्राप्तयेचअत्यमिवसततगामिनमश्वमिव तंयथास्तुवन्तितद्वत् ॥ ६ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९