मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३०, ऋक् ८

संहिता

इन्द्र॑ः स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे॑षु श॒तमू॑तिरा॒जिषु॒ स्व॑र्मीळ्हेष्वा॒जिषु॑ ।
मन॑वे॒ शास॑दव्र॒तान्त्वचं॑ कृ॒ष्णाम॑रन्धयत् ।
दक्ष॒न्न विश्वं॑ ततृषा॒णमो॑षति॒ न्य॑र्शसा॒नमो॑षति ॥

पदपाठः

इन्द्रः॑ । स॒मत्ऽसु॑ । यज॑मानम् । आर्य॑म् । प्र । आ॒व॒त् । विश्वे॑षु । श॒तम्ऽऊ॑तिः । आ॒जिषु॑ । स्वः॑ऽमीळ्हेषु । आ॒जिषु॑ ।
मन॑वे । शास॑त् । अ॒व्र॒तान् । त्वच॑म् । कृ॒ष्णाम् । अ॒र॒न्ध॒य॒त् ।
दक्ष॑म् । न । विश्व॑म् । त॒तृ॒षा॒णम् । ओ॒ष॒ति॒ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ॥

सायणभाष्यम्

अयमिन्द्रःसमत्सुसमरणेषु प्रहारनिमित्तेषुयजमानंयष्टारंआर्यंअरणीयं सर्वैर्गन्तव्यंप्राग्वत् प्रक -र्षेणरक्षति समत्स्वितिसंग्रामनाम समत्सुसमरणइतितन्नामसुपाठात् किंच शतमूतिःस्वभक्तेष्व -परिमितरक्षणइन्द्रः विशेषु लिंगव्यत्ययः सर्वेषुआजिषु स्पर्धानिमित्तेषुसंग्रामेषुयजमानं प्रावत् तथा स्वर्मीह्ळेषुस्वर्गदेशेषु सुखस्य सेचयत्सुवा आजिषु महासंग्रामेषु प्रावत् स्वर्गप्रदानेनरक्षति रणेआभिमुख्येनहतानांवीराणांरविमार्गः पराशरेणस्मर्यते—द्वाविमौपुरुषौलोकेसूर्यमण्डलभेदिनौ । परिव्राड्र्योगयुक्तश्चरणेयोऽभिमुखोहतइति । अत्रेतिहासमाचक्षते—अंशुमतीनामनदीतस्यास्तीरे कृ- ष्णनामासुरः वर्णतश्चकृष्णोदशसहस्रैरनुचरैरुपेतः तद्देशवर्तिनः प्राणिनः पीडयन्नास्ते तत्रेन्द्रोबृहस्प- तिनाप्रेरितःसन् मरुद्भिःसहितः कृष्णांतदीयत्वचमुत्कृत्यसानुचरमवधीत् अयमर्थः अवद्रप्सोअंशुम- तीमतिष्ठदित्यादिनोपरिष्टाद्वक्ष्यते तदत्रोच्यते अयमिन्द्रोमनवे मनुष्याय विभक्तिव्यत्ययःमनुष्याणा- मर्थाय अव्रतान् व्रतमितिकर्मनाम तद्रहितान्यागविद्वेषिणः शासत् शिक्षितवान् हिंसितवान् शासे- र्लेट्यडागमः तथा कृष्णांत्वचं कृष्णनाम्नोसुरस्य कृष्णवर्णां त्वचं उत्कृत्यारन्धयत् हिंसितवान् रध- हिंसायां रधिजभोरचीतिनुम् केनप्रकारेणेतितदुच्यते—धक्षत् न भस्मीकरोतिइव लेट्यडागमः सि- ब्बहुलमितिसिप् तथा विश्वंततृषाणमोषति सर्वमपिहिंसकं तदनुचरसंघंदहति यत्किंचिदवशिष्टमि- ति नेत्याह—अर्शसानं हिंसारुचिं हतावशिष्टं सर्वमपिन्योषति निःशेषेणदहति ॥ ८ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९