मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३०, ऋक् १०

संहिता

स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभि॑ः पाहि श॒ग्मैः ।
दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥

पदपाठः

सः । नः॒ । नव्ये॑भिः । वृ॒ष॒ऽक॒र्म॒न् । उ॒क्थैः । पुरा॑म् । द॒र्त॒रिति॑ दर्तः । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।
दि॒वः॒ऽदा॒सेभिः॑ । इ॒न्द्र॒ । स्तवा॑नः । व॒वृ॒धी॒थाः । अहो॑भिःऽइव । द्यौः ॥

सायणभाष्यम्

हेइन्द्र वृषकर्मन् अभिमतवर्षणव्यापारवन् पुरांदर्तः असुरपुराणांदारयितः सुबामन्त्रितेइतिष- ष्ठ्याःपराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य पादादित्वादाष्टमिकमाद्युदात्तत्वं सतादृशोमहा- नुभावस्त्वं नोऽस्मत्संबन्धिभिः नव्येभिः नूतनैः उक्थैः इदानींप्रतिपादितप्रकारैः स्तोत्रैस्तुष्टः सन् पा- युभिः पालनप्रकारैः शग्मैः सुखैश्चैहिकामुष्मिकरूपैः पाहिपालय किंच हेइन्द्र दिवोदासेभिः दिवोदा- सगोत्रोत्पन्नैः अर्शआदित्वादच् अस्माभिः परुच्छेपैः यद्वा पूजार्थंबहुवचनं स्तवानः स्तूयमानः कर्म- णिकर्तृप्रत्ययः ववृधीथाः प्रवृद्धोभव वृधोर्लिङि छान्दसःशपःश्लुः किमिव अहोभिरिव द्यौः द्योतन- शीलआदित्यः अहोभिः प्रसिद्धैर्यथा प्रवृद्धौभवति तथास्मत्स्तुत्या अत्यन्तं प्रवृद्धोभवेत्यर्थः ॥ १० ॥

इन्द्रायहीतिसप्तर्चंपंचमंसूक्तम् इन्द्रायसप्तेत्यनुक्रमणिका परुच्छेपऋषिः अत्यष्टिछन्दःइन्द्रोदेवता पृष्ठ्यस्यषष्ठेहनि माध्यन्दिनसवनेहोत्रकाः स्वस्वशस्त्रेएतत्सूक्तं तृचत्रयंकृत्वा आरंभणीयाभ्यऊर्ध्व- मावपेयुः अत्रायंविभागः—अद्यास्तिस्रोमैत्रावरुणस्य तृतीयाद्यास्तिस्रोब्राह्मणाच्छंसिनः पंचम्याद्या- स्तिस्रोच्छावाकस्य एतच्चतुर्थेहनीतिखण्डेसूत्रितम्-षष्ठेहनीन्द्रायहिद्यौरसुरोअनम्नतेत्येवमेवेति तत्रै- वाहनि तस्मिन्नेवस्वनेप्रशास्त्रादीनां प्रस्थितयाज्याभ्यः पुरस्तादादितः षळृचः एकैकशःप्रक्षेपणीयाः षष्ठस्येतिख्ण्डेसूत्रितं—इन्द्रायहिद्यौरसुरोअनम्नतेतिषळिति महाव्रतेनिष्केवल्ये इन्द्रायहीतितृचोवै- कल्पिकानुरूपद्वितीयःमहाव्रतस्येतिखण्डेसूत्रितंएन्द्रयाह्युपनःपरावतइन्द्रायहिद्यौरसुरोअनम्नतेति ।

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९