मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३१, ऋक् १

संहिता

इन्द्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेन्द्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः ।
इन्द्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः ।
इन्द्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ॥

पदपाठः

इन्द्रा॑य । हि । द्यौः । असु॑रः । अन॑म्नत । इन्द्रा॑य । म॒ही । पृ॒थि॒वी । वरी॑मऽभिः । द्यु॒म्नऽसा॑ता । वरी॑मऽभिः ।
इन्द्र॑म् । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः ।
इन्द्रा॑य । विश्वा॑ । सव॑नानि । मानु॑षा । रा॒तानि॑ । स॒न्तु॒ । मानु॑षा ॥

सायणभाष्यम्

द्यौः द्योतनशीलोद्युलोकः तन्निवासीदेवसंघोवा सचासुरोनिरसनशीलः शत्रूणामपुण्यकृतामेव तन्निवासात् इन्द्रायहि इन्द्रायैव अनम्नतस्वयमेवप्रह्वोभवति नमेश्छान्दसेलङि कर्मकर्तर्यात्मनेपदं नदुहस्नुनमामितियागभावः छान्दसःशपःश्लुःहलादिशेषाभावश्च अनुनासिकलोपः हिशब्दःप्रसिद्भ्य- र्थोवा तथा इन्द्रायेन्द्रार्थं महीमहतीपृथिवीभूमिः तत्रत्यः सर्वोजनोवा अनम्नतउभयत्राश्रयवाचिश- ब्देनाश्रयीलक्ष्यते ग्रामआगच्छति इतिवत् केनसाधनेनेतितदुच्यते—वरीमभिर्वरणीयैःस्तोत्रैर्हविर्भि- र्वा किंच द्युम्नसाताद्युम्नसातौ अन्नस्ययशसोवालाभनिमित्ते सति वरीमभिः वरणीयैर्हविर्भिर्युक्ताय- जमानाः प्रह्वाभवन्ति किंच इन्द्रमेवविश्वे सर्वेदेवासोदेवाः सजोषसः समानप्रीतियुक्ताः ऎकमत्य- भाजः पूर्वंअसुरजयार्थं पुरोदधिरे पुरतः स्थापितवन्तः इन्द्रमुखेनैवासुराञ्चितवन्तइत्यर्थः तथा विश्वा विश्वानिसर्वाणिमनुषा सवनानिमनुष्याणां संबन्धीन्यभिषवयुक्तानिप्रातरादिसवनानि इन्द्राय सन्तु इन्द्रायैवभवन्तु तथा मानुषा मनुष्याणां ऋत्विजां संबन्धीनि रातानि दातव्यानिपुरोडाशादीनि इन्द्रायहि इन्द्रायैव सन्तु इन्द्रं प्रीणयितुंसमर्थानिभवन्त्वित्यर्थः ॥ १ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०