मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३३, ऋक् १

संहिता

उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑नि॒न्द्राः ।
अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥

पदपाठः

उ॒भे इति॑ । पु॒ना॒मि॒ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । द्रुहः॑ । द॒हा॒मि॒ । सम् । म॒हीः । अ॒नि॒न्द्राः ।
अ॒भि॒ऽव्लग्य॑ । यत्र॑ । ह॒ताः । अ॒मित्राः॑ । वै॒ल॒ऽस्था॒नम् । परि॑ । तृ॒ळ्हाः । अशे॑रन् ॥

सायणभाष्यम्

हेइन्द्र ऋतेनत्वदुद्देश्येनयज्ञेन बलेनोभेरोदसीद्यावापृथिव्यौपुनामिलोकद्वयं हिंसकानांतवायष्टृ- णांवा अपगमनेन पावयामि किंच भूलोके अनिन्द्राः इन्द्रविरहितानामाश्रयभूतामहीः उर्वीः अतए- वद्रुहः द्रोहिणामाधारभूतत्वात् स्वयमपिद्रोग्ध्रीः संदहामिसंभूयैकहेलयादहामि पुनस्ताएवविशेष्य- न्ते यत्रयासुभूमिषु अमित्राः शत्रवः अभिव्लग्य अभितोगत्वा हताः सर्वतःप्राप्ताः अस्माभिर्घातिता- वा व्लगतिर्गतिकर्मा छान्दसोधातुः तेसर्वेपरितृह्ळाः हिंसिताः तृहूहिंसार्थः ऊदित्त्वाद्यस्यविभाषेती- ट्प्रतिषेधः हिंसिताःसन्तः अशेरन् शयनंप्राप्ताः शेतेर्व्यत्ययेनपरस्मैपदं शीङोरुट् शीङःसार्वधातुकेगु- णः वैलस्थानं विलशब्दोगर्तसमानार्थः सचगर्तः श्मशानवचनः अतोऽयमपिश्मशानवाची अथवाबि- लसंबन्धिस्थानंनागलोकः तत्रवाअशेरन् यद्वा बिलक्षेपेइति धातुः घञर्थेकः स्वार्थिकोण् तत्रशवाः क्षिप्यन्तेइतिबैलस्थानंश्मशानं तत्रत्वयाहताः भूमिं श्मशानवत्कृत्वासर्वत्रशेरते तान्दहामीत्यर्थः ॥ १ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२