मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३३, ऋक् ५

संहिता

पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण ।
सर्वं॒ रक्षो॒ नि ब॑र्हय ॥

पदपाठः

पि॒शङ्ग॑ऽभृष्टिम् । अ॒म्भृ॒णम् । पि॒शाचि॑म् । इ॒न्द्र॒ । सम् । मृ॒ण॒ ।
सर्व॑म् । रक्षः॑ । नि । ब॒र्ह॒य॒ ॥

सायणभाष्यम्

हेइन्द्र पिशंगभृष्टिं ईषद्रक्तवर्णं अंभृणं अतिभयंकरं शब्दायमानं भ्रणशब्दे यङ्लुगन्तात्पचाद्यचि- छान्दसोमलोपश्च यद्वा महान्तं अतिप्रवृद्धमित्यर्थः अंभृणइतिमहन्नाम अंभृणःमाहिनइतितत्रपाठात् उक्तविधिंपिशाचिं पिशाचविशेषंजरामित्येके संमृण सम्यक् हिंसय नकेवलंतमेकं किंतु सर्वंरक्षः रक्ष- णनिमित्तभूतं राक्षसादिकं निबर्हय निषूदय वृहहिंसायां चौरादिकः नामय वधकर्मैतत् नितोशयति निबर्हयतीतितत्रोक्तत्वात् ॥ ५ ॥ दशरात्रस्यषष्ठेहनि प्रउगशस्त्रे ऎन्द्रतृचस्यावर्महइन्द्रेत्यादिके प्रथमाद्वितीये षष्ठस्येतिखण्डेसूत्रि- तम्—अवर्महइन्द्रवृषन्निन्द्रेति ।

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२