मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३३, ऋक् ७

संहिता

व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑ ।
सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः ।
सु॒न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ॥

पदपाठः

व॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णसः । सु॒न्वा॒नः । हि । स्म॒ । यज॑ति । अव॑ । द्विषः॑ । दे॒वाना॑म् । अव॑ । द्विषः॑ ।
सु॒न्वा॒नः । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।
सु॒न्वा॒नाय॑ । इन्द्रः॑ । द॒दा॒ति॒ । आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥

सायणभाष्यम्

हेइन्द्र सुन्वन् त्वामुद्दिश्याभिषवंकुर्वन्यजमानः क्षयंसर्वैर्वस्तव्यं गन्तव्यंवा गृहंवनोति हि त्वत्प्र- सादात्संभजते हिःप्रसिद्भ्यर्थः किंच सुन्वानोहि सोमयागंकुर्वाणएव परीणसः परितोनद्धान् संबद्धा- न् द्विषोद्वेष्टृनवयजति नाशयति नकेवलंयागद्वेषिणः देवानांद्विषोप्यवयजति किंच सुन्वानइत् अभि- षवोपलक्षितंयागंकुर्वाणः हेइन्द्रत्वत्प्रसादात् वाजी वाजवान् अन्नवान् अवृतः परैरनाक्रान्तःसन् सहस्रा सहस्राण्यपरिमितानि गवादिधनानि सिषासति साधयितुं संभक्तुं इच्छति सनेः सनि सनीव- न्तर्धेतिविकल्पनादिडभावेजनसनखनेत्यात्वं केनेदंलभ्यतइतितत्राह—सुन्वानाय इन्द्रमुद्दिश्यसोम- यागंकुर्वाणाययजमानायवा अयमिन्द्रः आभुवंसमन्ताद्भवनशीलं तथा आभुवं पुनर्भवनशीलं अति- समृद्धंरयिंगवादिरूपंधनंददातिप्रयच्छति तस्मात्सुन्वानः सिषातीत्यर्थः ॥ ७ ॥

विंशेनुवाकेषट्सूत्रानि तत्रात्वाजुवइतिषळृचंप्रथमंसूक्तम् पारुच्छेपमात्यष्टं त्वन्नोवायवित्यन्त्या- ष्टिः चतुः षष्ट्यक्षरा वाय्व्यंत्वित्युच्यमानत्वादिदमुत्तरंचवायुदेवत्यं अत्रानुक्रमणिका आत्वापड्वाय- व्यंत्वंत्याष्टिरिति विनियोगोलैंगिकः ।

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२