मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३५, ऋक् ५

संहिता

आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिन्दुं॑ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन॑म् ।
तेषां॑ पिबतमस्म॒यू आ नो॑ गन्तमि॒होत्या ।
इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वम् ॥

पदपाठः

आ । वा॒म् । धियः॑ । व॒वृ॒त्युः॒ । अ॒ध्व॒रान् । उप॑ । इ॒मम् । इन्दु॑म् । म॒र्मृ॒ज॒न्त॒ । वा॒जिन॑म् । आ॒शुम् । अत्य॑म् । न । वा॒जिन॑म् ।
तेषा॑म् । पि॒ब॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू । आ । नः॒ । ग॒न्त॒म् । इ॒ह । ऊ॒त्या ।
इन्द्र॑वायू॒ इति॑ । सु॒ताना॑म् । अद्रि॑ऽभिः । यु॒वम् । मदा॑य । वा॒ज॒ऽदा॒ । यु॒वम् ॥

सायणभाष्यम्

हेइन्द्रवायू वांयुवांधियः कर्माणिस्तोत्रादिलक्षणानि अध्वरान् उप अस्मदीयान्यज्ञान् लक्षीक्रुत्य ववृत्युः अतिशयेनवर्तयन्ति प्रवर्तयन्ति किंच युष्मदर्थं वाजिनं ग्रहणाय द्रोणकलशाद्ग्रहान् प्रतिगम- नवन्तं आमिक्षावन्तं वाइमंइन्दुं पुरतोवर्तमानंसोमं मर्मृजन्त अध्वर्यंवोदशापवित्रेणसंमार्जयन्ति मार्जनेदृष्टान्तः—आशुंअतिशीघ्रगामिनं अत्यंन सततंगन्तारंवाजिनं वेजनवन्तमश्वमिव यथा स्वेदा- द्यपनयनेनसंमार्जयन्तितद्वत् किंच हेइन्द्रवायू तेषामध्वर्यूणांसंबन्धिनः शोधितान्सोमान् पिबतं पानंकुरुतंतदर्थंनो‍ऽस्माकंयज्ञंप्रतिइहइदानींऊत्यास्मद्रक्षणेन सहआगतं आगच्छतं किंच हेइन्द्रवायू अस्मयू अस्मद्यज्ञमिच्छन्तौ युवंयुवांअद्रिभिर्ग्रावभिः सुतानामभिषुतानां पूर्ववत्कर्मणिषष्ठी तान्पि- बतमितिशेषः किमर्थ मदायतृप्तये मोदायवा यतोयुवंयुवां वाजदावाजस्यान्नस्य दातारौ अतः- पिबतमित्यन्वयः ॥ ५ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४