मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३६, ऋक् १

संहिता

प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् ।
ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता ।
अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥

पदपाठः

प्र । सु । ज्येष्ठ॑म् । नि॒ऽचि॒राभ्या॑म् । बृ॒हत् । नमः॑ । ह॒व्यम् । म॒तिम् । भ॒र॒त॒ । मृ॒ळ॒यत्ऽभ्या॑म् । स्वादि॑ष्ठम् । मृ॒ळ॒यत्ऽभ्या॑म् ।
ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । य॒ज्ञेऽय॑ज्ञे । उप॑ऽस्तुता ।
अथ॑ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः॑ । च॒न । आ॒ऽधृषे॑ । दे॒व॒ऽत्वम् । नु । चि॒त् । आ॒ऽधृषे॑ ॥

सायणभाष्यम्

हेऋत्विजः मित्रावरुणाभ्यां ज्येष्ठंप्रशस्यं बृहत् महत् अतिप्रवृद्धंनमः नमस्कारोपलक्षितंस्तोत्रं- तदुपलक्षितंहविर्लक्षणमन्नंवा प्रभरतसंपादयत् नमइत्यन्ननाम नमः आयुरितितन्नामसुपाठात् किंच हव्यंहव्यांमतिंतत्प्रदानविषयांबुद्धिं भरत यद्वा मतिंपूज्यं हव्यंहविर्भरत पूर्वत्रपुरोडाशाद्यदनीयमन्नं इदानींतु सोमाज्यादिरूपं निपेयंहविरितिविवेकः कीदृशाभ्यांताभ्यां निचिराभ्यांनितरांचिरकाला- भ्यां नित्याभ्यामित्यर्थः प्रवाहरूपेणेतिभावः किंच मृळयद्भ्यां स्तुत्याहविः स्वीकारेणस्वयं मृडित्वा- यजमानमपिसुखयद्भां तथास्वादिष्ठंस्वादुतरंमृडयद्भ्यांहविःसुखयद्भ्यांभक्षयद्भ्यामित्यर्थः कस्तयोर्वि- शेषइतितत्राह—ता तौमित्रावरुणौसम्राजा सम्यग्राजमानौ राजतेःक्विप् मोराजिसमः क्वावितिसमो- मकारस्यमकारः घृतासुतीघृतमासूयते आदीयतेयाभ्यां तौ तादृशौ यद्वा घृतमुदकंवृष्टिलक्षणं प्रसूयते सर्वत्रानुज्ञायते याभ्यांतौ एतयोरहोरात्राभिमानिदेवत्वादहोरात्रिद्वारावृष्ट्युत्पादकत्वात् अहोरा- त्रेवैमित्रावरुणावहोरात्राभ्यांखलुवैपर्जन्योवर्षतीतिश्रुतेः । वृष्ट्यनुज्ञाप्रदत्वंप्रसिद्धं किंच एतौयज्ञेयज्ञे सर्वेष्वपियज्ञेषुउपस्तुता सर्वैरृत्विग्भिःस्तूयमानौ गतिरनन्तरइतिगतेःप्रकृतिस्वरत्वं अथ अपिच एनोः एनयोः संज्ञापूर्वकस्यविधेरनित्यत्वादोसिचेतिगुणाभावे अतोगुणेइतिपररूपत्वं अथ अपिच एनोः एनयोः संज्ञापूर्वकस्यविधेरनित्यत्वादोसिचेतिगुणाभावे अतोगुणेइतिपररूपत्वं क्षत्रं बलं कुतश्चन कस्मादपिचशत्रोः राक्षसादेः सकाशात् कस्मादप्युपायाद्वा नाधृषे आधर्षितुंनामशक्यं- नभवति कृत्यार्थेतवैकेनितिकेन्प्रत्ययः किंच तयोर्देवत्वं नूचित् देवभावोऽपिनाधृषेआधर्षणायोग्यः यद्वा पूर्वमिवेदानीमपि नूचिदिति निपातः पुराणनवयोरितियास्केनोक्तत्वात् आधृषे नकेनाप्यध- र्षणीयोभवति एतयोर्बलंनाधृष्यं किमुतद्देवत्वमितिभावः ॥ १ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६