मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३६, ऋक् ५

संहिता

यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः ।
तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम् ।
उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥

पदपाठः

यः । मि॒त्राय॑ । वरु॑णाय । अवि॑धत् । जनः॑ । अ॒न॒र्वाण॑म् । तम् । परि॑ । पा॒तः॒ । अंह॑सः । दा॒श्वांस॑म् । मर्त॑म् । अंह॑सः ।
तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒ऽयन्त॑म् । अनु॑ । व्र॒तम् ।
उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒ऽभूष॑ति । व्र॒तम् । स्तोमैः॑ । आ॒ऽभूष॑ति । व्र॒तम् ॥

सायणभाष्यम्

योजनः यजमानोमित्रायवरुणायच कर्मणःसंप्रदानत्वाच्चतुर्थी मित्रंवरुणंच अविधत् परिचरति तंजनंयुष्मत्परिचारकं अनर्वाणं अद्वेषिणं भ्रातृव्योवाअर्वेतिश्रुतेः । अनल्पंवा अनन्यसेवितं परिपाथः परितोरक्षनं कस्मादितितदुच्यते—अंहसः न्यूनातिरेकजनितात्पापात् नकेवलं सामान्यं जनं अपितु- दाश्वांसं हविर्दत्तवन्तं मर्तंमरणधर्माणं अंहसःसर्वस्मादपिपापात् नकेवलं भवंतोवेवअपितु अर्यमास- र्वेपांनियन्तादेवः ऋजूयन्तंदेवेष्वार्जवमाचरन्तं यजमानं व्रतमनु तदीयंकर्मानुलक्ष्य अभिरक्षति अभितोरक्षति कोस्यजनस्यविशेषइतितत्राह—योयजमानः उक्थैः शस्त्रैः एनोएनयोर्मित्रावरुणयोर्व्र- तंकर्मपरिभूपति परिगृह्णाति तथायजमानः युष्मदीयंव्रतंकर्म स्तोमैः स्तोत्रैर्गानयुक्तमन्त्रसाध्यैः आ- भूपति सर्वतः अलंकरोति भूषअलङ्कारे भौवादिकः तमभिरक्षन्तीत्यन्वयः ॥ ५ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६