मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३६, ऋक् ७

संहिता

ऊ॒ती दे॒वानां॑ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भि॑ः ।
अ॒ग्निर्मि॒त्रो वरु॑ण॒ः शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥

पदपाठः

ऊ॒ती । दे॒वाना॑म् । व॒यम् । इन्द्र॑ऽवन्तः । मं॒सी॒महि॑ । स्वऽय॑शसः । म॒रुत्ऽभिः॑ ।
अ॒ग्निः । मि॒त्रः । वरु॑णः । शर्म॑ । यं॒स॒न्् । तत् । अ॒श्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ॥

सायणभाष्यम्

इन्द्रवन्तः प्रीतेनेन्द्रेणतद्वन्तोवयंदेवानां देवान् कर्मणिषष्ठी ऊती ऊत्या तर्पणेनहविरादिना मं- सीमहि मन्येमहि कीदृशावयं स्वयशसः स्वायत्तकीर्तयः मरुद्भिः स्तुत्याहृष्टैर्मरुद्देवैः अनुगृहीताः यद्वा देवानामूत्या रक्षणेन रक्षितामंसीमहिमन्तारोभवेम सामर्थ्यात्तेषामेवमहत्त्वस्य किंचाग्निमित्रा- वरुणादेवाः शर्मयंसन् अस्माकंसुखंप्रायच्छन् तंतंवरंमघवानोवयंचतैर्दत्तान्नवन्तःसन्तस्तत्सुखंअश्याम व्याप्नुयाम अश्नोतेराशिषिलिङि छन्दस्युभयथेति सार्वधातुकत्वात्सलोपः ॥ ७ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थीश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणामा- त्येनविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टकेप्रथमोऽध्यायः ॥ १ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६