मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३७, ऋक् २

संहिता

इ॒म आ या॑त॒मिन्द॑व॒ः सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः ।
उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभि॑ः ।
सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑रृ॒ताय॑ पी॒तये॑ ॥

पदपाठः

इ॒मे । आ । या॒त॒म् । इन्द॑वः । सोमा॑सः । दधि॑ऽआशिरः । सु॒तासः॑ । दधि॑ऽआशिरः ।
उ॒त । वा॒म् । उ॒षसः॑ । बु॒धि । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ।
सु॒तः । मि॒त्राय॑ । वरु॑णाय । पी॒तये॑ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥

सायणभाष्यम्

हेमित्रावरुणौ आयातंआगच्छतं यतोयुष्मदर्थंइन्दवः क्लेदनसमर्थाः सोमासःसोमाःदध्याशिरः दध्नाश्रयणवन्तःसन्तःइमेपुरतोग्रहेणगृहीतावर्तन्ते अतआयातं किंच दध्याशिरः धीयमानाशिरःसो- माः सुतासः मन्त्रेणग्रावभिरभिषुताःसंपन्नाः अतआयातमितिशेषः आदित्यग्रहेदध्यवनयद्भावात् त- दपेक्षयादध्याशिरइत्युक्तं उतअपिच वांयुवयोःप्रीतयेपालनाय उषसोबुधि उषसः संबंधिनिबोधेसति संपदादिलक्षणोभावेक्विप् सावेकाचइतिविभक्तेरुदात्तत्वं प्रकाशेसंजातेसति नकेवलमुषसएवबोधः अपितुसूर्यस्यरश्मिभिःसाकं सूर्यकिरणैःसहप्रकाशेहविःप्रदानायसंजातेसति सुतः सोमोअभिषुतः इदानींवियुज्योच्यते मित्रायसर्वहितायएतन्नामकायअहरभिमानिदेवाय तथवरुणायआवरकाय रा- त्र्यभिमानिदेवायच तदर्थंसोमःसुतइतिशेषः किंच ऋताययज्ञायतन्निर्वाहकायतदर्थंपीतयेपानाययज्ञ- सिद्ध्यर्थंहिदेवानांसोमपानं यद्वा कर्तरिक्तिच् पीतयेपात्रेऋत्विगादयेऋताययज्ञायतन्निर्वाहकायवा चारुःचरणीयः भक्षणीयः सोमः सुतःअभिषुतः ॥ २ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः