मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३७, ऋक् ३

संहिता

तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भि॒ः सोमं॑ दुह॒न्त्यद्रि॑भिः ।
अ॒स्म॒त्रा ग॑न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये ।
अ॒यं वां॑ मित्रावरुणा॒ नृभि॑ः सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥

पदपाठः

ताम् । वा॒म् । धे॒नुम् । न । वा॒स॒रीम् । अं॒शुम् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः । सोम॑म् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः ।
अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ । अ॒र्वाञ्चा॑ । सोम॑ऽपीतये ।
अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । नृऽभिः॑ । सु॒तः । सोमः॑ । आ । पी॒तये॑ । सु॒तः ॥

सायणभाष्यम्

मित्रावरुणा हेमित्रावरुणौ वांयुवयोःसंबन्धिनमंशुंवल्लीरूपंसोमंदुहन्ति संपादयन्ति अध्वर्यवः किमिव तांप्रसिद्धांअग्निहोत्राद्यर्थांवासरीं सर्वांगाच्छादितपयस्कांबहुक्षीरामित्यर्थः यद्वा पयआदिना- आच्छादयित्रीं वसआच्छादने औणादिकअरिप्रत्ययः कृदिकारादक्तिनइतिङीष् यद्वा केवलऔणादिकः अरप्रत्ययः स्वार्थिकोऽण् धेनुंन प्रीणयित्रींगामिव केनसाधनेनेतितदाह—अद्रिभिः अभिषवसाधनै- र्ग्रावभिः किंच अद्रिभिः तैरेवसाधनैः सोमंयुष्मदर्थमेवदुहन्ति वल्लीरूपंसोमंयुष्मदर्थमेवोदकेनाप्ला- व्यरसंदुहन्ति किंच अर्वांचा अस्मदभिमुखौसन्तौ सोमपीतयेसोमपानाय अस्मत्राअस्मन्त्रातारौ यु- वांनोऽस्मदीयंयज्ञंउपगन्तं उपागच्छतं किंच वांयुष्मदर्थं अयंसोमःनृभिर्नेतृभिर्यज्ञनिर्वाहकैःऋत्वि- ग्भिःसुतःअभिषुतः किंच आपीतयेसंपूर्णपानाय सुतः अतआगच्छतमित्यर्थः ॥ ३ ॥

प्रप्रपूष्णइतिचतुरृचंपंचमंसूक्तं पारुच्छेपमात्यष्टं पूषदेवताकं प्रप्रचतुष्कंपौष्णमित्यनुक्रान्तं विनि- योगोलैङ्गिकः ।

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः