मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३८, ऋक् ३

संहिता

यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यव॒ः क्रत्वा॑ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे ।
तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे ।
अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥

पदपाठः

यस्य॑ । ते॒ । पू॒ष॒न् । स॒ख्ये । वि॒प॒न्यवः॑ । क्रत्वा॑ । चि॒त् । सन्तः॑ । अव॑सा । बु॒भु॒ज्रि॒रे । इति॑ । क्रत्वा॑ । बु॒भु॒ज्रि॒रे ।
ताम् । अनु॑ । त्वा॒ । नवी॑यसीम् । नि॒ऽयुत॑म् । रा॒यः । ई॒म॒हे॒ ।
अहे॑ळमानः । उ॒रु॒ऽशं॒स॒ । सरी॑ । भ॒व॒ । वाजे॑ऽवाजे । सरी॑ । भ॒व॒ ॥

सायणभाष्यम्

हेपूषन्देव यस्यते रक्षकत्वेनप्रसिद्धस्यतवसख्ये सखित्वेहितकरणेसति क्रत्वाचित् क्रतुनाप्रकृतेन- कर्मणैव जसादिषुछन्दसिवावचनमितिनाभावाभावः संतः भवन्तंप्रीणयितारःसन्तःविपन्यवः विशे- षेणस्तोत्रशीलाः यद्वा मेधाविनामैतत् मेधाविनोयजमानाः अवसा त्वत्कृतेनरक्षणेनरक्षिताःसन्तः बुभुज्रिरेभुञ्चते भोगान् इति एवमेवसर्वदाक्रत्वाकर्मणाबुभुज्रिरे भुंजते सर्वेपाल्यन्तइतिवा भुजेश्छ- न्दसिलिटिबहुलंछन्दसीतिरुट् तांतादृशीं नवीयसी नवतरां स्तुत्यांवारक्षां अनुअनुसृत्य रक्षायाअन- न्तरंत्वांनियुतं रायः एतत्संख्याकान् धनानि ईमहे याचामहे किंच हे उरुशंम बहुधास्तुत्य त्वं अहेळ- मानः अक्रुध्यन् अस्मासुसुमनाःसन् सरीभव अस्माभिर्गंतव्योभव सर्तेरौणादिकइनिप्रत्ययः आद्यु- दात्तत्वं किंच त्वंवाजेवाजे सर्वेष्वपिसंग्रामेषु सरीभवगमनशीलोभव पुरतोगन्ताभवेत्यर्थः ॥ ३ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः