मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३९, ऋक् ५

संहिता

शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतम् ।
मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥

पदपाठः

शची॑भिः । नः॒ । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । दिवा॑ । नक्त॑म् । द॒श॒स्य॒त॒म् ।
मा । वा॒म् । रा॒तिः । उप॑ । द॒स॒त् । कदा॑ । च॒न । अ॒स्मत् । रा॒तिः । कदा॑ । च॒न ॥

सायणभाष्यम्

हेशचीवसू शचीतिकर्मनमअस्मदनुष्ठितज्योतिष्टोमादिकर्मधनौ युवांशचीभिः अस्मदीयैः कर्मभि- र्यागादिभिर्निमित्तभूतैः दिवानक्तं अहनिरात्रौच दशस्यतं अभिमतंददेथां दाशृदाने इत्यस्येदंछान्दसं- रूपं यद्वा दशस्यतिर्दानार्थः कंड्वादिषुद्रष्टव्यः वांयुवयोः रातिर्दानंकदाचन सर्वदायागकालेअयाग- कालेपि मोपदसत् मोपक्षीणंभूत् दसुउपक्षये लुङिपुषादिद्युतादीतिच्लेरङ् नकेवलंयुष्मदीयं अपितु अस्मत् अस्माकमपि रातिर्दानं हविरादिप्रदानंसर्वविषयंदानं वार्थिभ्यः कदाचन सर्वावस्थायामपि मोपदसत् उपक्षीणंमाभूत् सर्वदावर्ततां अहमपिसर्वदायुष्मानुद्दिश्यदद्यां युवामपि मदभिमतंसर्वदा- दत्तमित्यर्थः ॥ ५ ॥ पृष्ठ्यस्यषष्ठेहनिप्रउगशस्त्रस्यैन्द्रेतृचे तृतीयावृषन्निन्द्रेत्येषा सूत्रितंच-वृषन्निन्द्रवृषपाणासइन्दवः सुषुमायातमद्रिभिरिति तत्रैवस्वनेप्रस्थितयाज्यानांपुरस्तात् अन्याऋचः प्रक्षिप्योभयीभिर्यष्टव्यं तत्रहोतुःप्रस्थितयाज्यायाःपुरस्तात् एषाप्रक्षेपणीया सूत्रितंच—षष्ठस्यप्रातःसवने प्रस्थितयाज्यानां- पुरस्तादन्याःक्रुत्वोभाभ्यामनवानन्तोयजन्तीति ।

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः