मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३९, ऋक् ६

संहिता

वृष॑न्निन्द्र वृष॒पाणा॑स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिदः॑ ।
ते त्वा॑ मन्दन्तु दा॒वने॑ म॒हे चि॒त्राय॒ राध॑से ।
गी॒र्भिर्गि॑र्वाह॒ः स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ॥

पदपाठः

वृष॑न् । इ॒न्द्र॒ । वृ॒ष॒ऽपाना॑सः । इन्द॑वः । इ॒मे । सु॒ताः । अद्रि॑ऽसुतासः । उ॒त्ऽभिदः॑ । तुभ्य॑म् । सु॒तासः॑ । उ॒त्ऽभिदः॑ ।
ते । त्वा॒ । म॒न्द॒न्तु॒ । दा॒वने॑ । म॒हे । चि॒त्राय॑ । राध॑से ।
गीः॒ऽभिः । गि॒र्वा॒हः॒ । स्तव॑मानः । आ । ग॒हि॒ । सु॒ऽमृ॒ळी॒कः । नः॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

हेइन्द्र वृषन् वर्षितःकामानां इमेपुरतोदृश्यमानाइन्दवःसोमाः सुताः त्वदर्थमभिषुताः कीदृशा- स्तेवृषपानासः अभिमतवर्षकेणत्वयापातव्याः अद्रिसुतासः अद्रिभिर्दृढैः पाषाणैः अभिषवसाधनैः सुताः अद्भिदः उद्भेदकाः वर्षस्य तएवपुनर्विशेष्यन्ते उद्भिदः बलस्योद्भेदकाः उद्भिन्नावापर्वतादौ तादृशाः सोमाः तुभ्यंसुतासः त्वदर्थमेवाभिषुताः किंच तेतादृशाः सोमाः त्वात्वांमन्दन्तु तर्पयन्तु कुत्रेतितदुच्यते—दावनेदानवतियागे अभिमतदानायवा तथामहे महते चित्रायचायमानाय विचि- त्रायनानाविधायवा राधसे धनाय किंच हेगिर्वाहः गिरांस्तुतीनांअस्मदीयानांवोढः वहिहाधाञ्भ्य- इत्यसुन् गीर्भिः अस्मत्स्तुतिभिः स्तवमानःसन् आगहि आगच्छ नोस्मान्सुमृळीकः सुष्ठुमृडयितासन् आगहिआगच्छ ॥ ६ ॥ दशरात्रस्यषष्ठेहनिप्रातःसवनेनेष्टुःप्रस्थितयाज्यायाःपुरस्तादोषूणोअग्नइत्येषावपनीयाएकीकृत्यो- भाभ्यांयागः षष्ठस्येतिखण्डेसूत्रितं—ओषूणोअग्नेश्रृणुहित्वमीळितोग्निंहोतारमिति तस्मिन्नेवसवने प्र- उगशस्त्रेद्वितीया सूत्रितंच—अस्तुश्रौषळोषूणोअग्नइति ।

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः