मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३९, ऋक् ७

संहिता

ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः ।
यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन ।
वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥

पदपाठः

ओ इति॑ । सु । नः॒ । अ॒ग्ने॒ । शृ॒णु॒हि॒ । त्वम् । ई॒ळि॒तः । दे॒वेभ्यः॑ । ब्र॒व॒सि॒ । य॒ज्ञिये॑भ्यः । राज॑ऽभ्यः । य॒ज्ञिये॑भ्यः ।
यत् । ह॒ । त्याम् । अङ्गि॑रःऽभ्यः । धे॒नुम् । दे॒वाः॒ । अद॑त्तन ।
वि । ताम् । दु॒ह्रे॒ । अ॒र्य॒मा । क॒र्तरि॑ । सचा॑ । ए॒षः । ताम् । वे॒द॒ । मे॒ । सचा॑ ॥

सायणभाष्यम्

हेअग्ने त्वंनोऽस्मदीयं आवाहनं स्तुतिंवा ईळितः अस्माभिः स्तुतःसन् ओषुश्रृणुहि ओइति निपात- द्वयसमुदायात्मकएकोनिपातः आभिमुख्येनैवसुष्ठुश्रृणु उतश्चप्रत्ययादितिछन्दसिवावचनमितिहेर्लुग- भावः श्रुत्वाचदेवेभ्योदेवनशीलेभ्योयज्ञियेभ्योयज्ञार्हेभ्यः हविर्भाग्भ्यः स्तुतिभाग्भ्यश्चेत्यर्थः यज्ञर्त्वि- ग्भ्यामितिघः तेभ्यः यज्ञियेभ्योयज्ञार्हेभ्योयजमानेभ्यः संबन्धिकर्मब्रवसिब्रूहि ब्रवीतेर्लेट्यडागमःकी- दृशेभ्यः राजभ्योराजमानेभ्यः इदानींदेवाः प्रत्यक्षेणोच्यन्ते अत्रेतिहासमाहुः—अङ्गिरसोनममहर्ष- यः पूर्वंयज्ञार्थंदेवान् स्तुत्याप्रीणयित्वागाः अयाचन्त तेप्रीताःकामदुघांप्रादुः लब्ध्वाचतांधेनुंक्षीरंदो- ग्धुमशक्रुवानाः अर्यंमणंदेवंप्रार्थयन् सचप्रार्थितोऽग्निहोत्राद्यर्थं क्षीरंदुदोहेति तदिदमत्रोच्यते—यत् यां त्यां तां हप्रसिद्धांधेनुंक्षीरादिनाप्रीणयित्रींगांहेदेवाः अंगिरोभ्यः तदर्थंअदत्तन दत्तवन्तः तप्तनप्तन- थनाश्चेतितनादेशः तांधेनुंअर्यमासर्वस्यनियमितादेवः कर्तरिसर्वस्योत्पदकेत्वय्य्ग्नौसचाइतरदेवेभ्यः साकं विदुह्रे विविधंदुग्धवान् दुहेर्लिटिबहुलंछन्दसीतिरुट् छन्दसिवेतिवचनात्द्विर्वचनाभावः लट्येव- वालोपस्तइतितलोपः एषः एषवार्यमा तांधेनुंमेसचामत्समवायेनवेदजानाति अर्यमाहमपिजानामी- त्यर्थः ईदृशीधेनुस्त्वदर्थमेवदुह्यतइत्यग्नेःस्तुतिः ॥ ७ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः