मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् १

संहिता

वे॒दि॒षदे॑ प्रि॒यधा॑माय सु॒द्युते॑ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये॑ ।
वस्त्रे॑णेव वासया॒ मन्म॑ना॒ शुचिं॑ ज्यो॒तीर॑थं शु॒क्रव॑र्णं तमो॒हन॑म् ॥

पदपाठः

वे॒दि॒ऽसदे॑ । प्रि॒यऽधा॑माय । सु॒ऽद्युते॑ । धा॒सिम्ऽइ॑व । प्र । भ॒र॒ । योनि॑म् । अ॒ग्नये॑ ।
वस्त्रे॑णऽइव । वा॒स॒य॒ । मन्म॑ना । शुचि॑म् । ज्यो॒तिःऽर॑थम् । शु॒क्रऽव॑र्णम् । त॒मः॒ऽहन॑म् ॥

सायणभाष्यम्

हेअध्वर्योवेदिषदे वेद्यांसीदतेनित्यं प्रियधामायप्रियधाम्ने प्रियस्थानाय उत्तरवेदिलक्षणप्रियस्था- नाय सुद्युते शोभ्नद्योतनाय अग्नये अग्ननयनादिगुणविशिष्टाय योनिंस्थानं वेद्याख्यं धासिमिव हवी- रूपमन्नमिव प्रभर प्रहर प्रकर्षेणसंपादयेत्यर्थः तच्च स्थानंवस्त्रेणेव तेनयथामार्दवायास्तृणाति तद्वत् मन्मनामननीयेनसंभारेण बर्हिषावा वेदिस्थानं वासय आच्छादय कीदृशंतत्स्थानमितितदुच्ये—शु- चिंउत्पवनप्रोक्षणादिना अमेध्यासुरादीनामपगतत्वाच्छुद्धम् ज्योतीरथंज्योतिषआज्यादेरग्नेर्वारथ- स्थानीयं आधारभूतत्वात् शुक्रवर्णंअग्न्युपेतत्वात् दीप्तवर्णं अतएव तमोहवं तमसोऽन्धकारस्यहन्तारं अज्ञानस्यवा अग्निसाध्ययज्ञादिद्वाराज्ञानविचारकत्वादितिभावः यद्वा तस्यांयोनौ स्थाने वस्त्रेण य- थागोपनीयंवस्तुगोपयन्ति तद्वत् तमग्निं वासय निवासय स्थापय मन्मना मननीयेन हद्येन वस्त्रसदृ- शेन मृदुकाष्ठादिना आच्छादयवा कीदृशं ज्योतीरथं दीप्तरथोपेतं शॆषंपूर्ववत् ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः