मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् ३

संहिता

कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु॑म् ।
प्रा॒चाजि॑ह्वं ध्व॒सय॑न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥

पदपाठः

कृ॒ष्ण॒ऽप्रुतौ॑ । वे॒वि॒जे इति॑ । अ॒स्य॒ । स॒ऽक्षितौ॑ । उ॒भा । त॒रे॒ते॒ इति॑ । अ॒भि । मा॒तरा॑ । शिशु॑म् ।
प्रा॒चाऽजि॑ह्वम् । ध्व॒सय॑न्तम् । तृ॒षु॒ऽच्युत॑म् । आ । साच्य॑म् । कुप॑यम् । वर्ध॑नम् । पि॒तुः ॥

सायणभाष्यम्

अस्याग्नेः मातरा मातृस्थानीये उत्पादयित्र्यौ उभा उभे अरण्याख्येमातरौ वेविजेचलतः ओवि- जीभयचलनयोः अस्माद्यङ्लुगन्ताव्द्यत्ययेनात्मनेपदं एकवचनंच लोपस्तआत्मनेपदेष्वितितलोपः चादिलोपेविभाषेतिनिघाताभावः कीदृशेमातरौ मथनोपक्रमेकृष्णप्रुतौ अग्निसंपर्कात्कृष्णवर्णतांप्रा- प्नुवत्यौ प्रापयन्त्यौवाभूमिं तथासक्षितौ समानकार्यमग्न्युत्पादनंगच्छन्त्यौ एवंभूतेमातरौ शिशुं शि- शुवदुत्पत्तिसमये अत्यल्पमग्निं अभितरेते आभिमुख्येनप्राप्नुतश्च कीदृशंशिशुं प्राचाजिह्वं प्राग्देशस्थि- तजिह्वास्थानीयज्वालं ध्वसयन्तं तमोनाशयन्तं तृषुच्युतं अरणीभ्यां क्षिप्रंनिर्गच्छन्तंअक्लेशेनयोनेः सकाशाच्छीघ्रमुत्पद्यमानं आईषत् साच्यं समवेतव्यं अरणीभ्यां क्षिप्रंनिर्गच्छन्तंअक्लेशेनयोनेःसका- शाच्छीघ्रमुत्पद्यमानं आईषत् साच्यं समवेतव्यं मृदुकाष्ठचूर्णादिना कुपयंगोपनीयं पितुःपालकस्य यजमानस्य वर्धनं प्रवर्धनं प्रवर्धयितारं उक्तप्रकारैर्लौकिकशिशुसाधारणैरुपेतंशिशुमग्निं मातरावुत्पा- दयतइत्यर्थः ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः