मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् ४

संहिता

मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी॑तास ऊ॒ जुवः॑ ।
अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शवः॑ ॥

पदपाठः

मु॒मु॒क्ष्वः॑ । मन॑वे । मा॒न॒व॒स्य॒ते । र॒घु॒ऽद्रुवः॑ । कृ॒ष्णऽसी॑तासः । ऊं॒ इति॑ । जुवः॑ ।
अ॒स॒म॒नाः । अ॒जि॒रासः॑ । र॒घु॒ऽस्यदः॑ । वात॑ऽजूताः । उप॑ । यु॒ज्य॒न्ते॒ । आ॒शवः॑ ॥

सायणभाष्यम्

मनवे मननवते मानवस्यते मानवानृत्विजः कर्मार्थं इच्छते यजमानाय तदर्थमध्वर्य्वादि भिरग्ने- र्ज्वालाः उपयुज्यन्ते प्रकटीक्रियन्ते यज्ञेषु सूक्तस्याग्नेयत्वादौचित्यात् ज्वालाइतिगम्यते कंदृश्यस्ताः मुमुक्ष्वः मुमुक्षवः आहुतिद्वारायजमानंमोक्तुमिच्छन्त्यःब्रह्मलोकंप्रापयन्त्यः जसादिषु छन्दसिवावच- नमितिगुणाभावः ज्वालानामाहुतिद्वाराब्रह्मलोकप्राप्तिसाधनत्वं कालीकरालीत्युपक्रम्यश्रूयते—एते- षुयश्चरतेभ्राजमानेषुयथाकालंचाहुतयोह्याददायन् । तन्नयन्त्येताःसूर्यस्यरश्मयोयत्रदेवानांपतिरेकोऽ– धिवासइति । रघुद्रुवः क्षिप्रंगच्छन्त्यः कृष्णसीतासः कृष्णमार्गाः उकारः समुच्चयार्थः जुवः जवनशी- लाः शीघ्रकारिण्यः स्वव्यापारेषुअसमनाःअसमानमनस्काः काश्चन प्राङ्मुख्योगच्छन्ति काश्चनप्रत्य- ङ्मुख्यइति विविधमनस्काः व्यत्ययेनैकवचनं यद्वा असमनाः भिन्नवर्णाः भिन्नवर्णत्वंचतत्रैवश्रूयते— कालीकरालीचमनोजवाचसुलोहितायाचसुधूम्नवर्णा । स्फुलिंगिनीविश्वभुवीचदेवीलेलायमानाइति- सप्तजिह्वाइति । अजिरासः गमनशीलाः रघुस्यदः शीघ्रं स्यन्दमानाः वातजूताः वातप्रेरिताः तृती- याकर्मणीतिपूर्वपदप्रकृतिस्वरत्वं आशावः व्यापनशीलाः ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः