मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् ६

संहिता

भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् ।
ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा॑ दविधाव दु॒र्गृभि॑ः ॥

पदपाठः

भूष॑न् । न । यः । अधि॑ । ब॒भ्रूषु॑ । नम्न॑ते । वृषा॑ऽइव । पत्नीः॑ । अ॒भि । ए॒ति॒ । रोरु॑वत् ।
ओ॒जा॒यमा॑नः । त॒न्वः॑ । च॒ । शु॒म्भ॒ते॒ । भी॒मः । न । शृङ्गा॑ । द॒वि॒धा॒व॒ । दुः॒ऽगृभिः॑ ॥

सायणभाष्यम्

योऽग्निर्बभ्रूषुबभ्रुवर्णास्वोषधीषुभरणकुशलासुवाजगतांअधि अधिकंनम्नते नमति काष्ठानिप्रविश- ति नमतेर्लेट्यडागमः व्यत्ययेनश्चा यद्वा लङिछान्दसःशपःश्लुः व्यत्ययेनहलादिशेषाभावः भूषन् न- भूतान्येवस्वतेजसाभूषयन्निव किंच अयंप्रविशन् वृषेवसेक्तावृषभइवपत्नीः तमेवपालयित्रीः समर्ध- यित्रीरोषधीः रोरुवत् रौतेर्यङ्लुगन्ताच्छतरिअभ्यस्तानामादिरित्याद्युदात्तत्वं अत्यर्थंशब्दयन्नभ्येति अभितोगच्छति प्रथममोषधीःप्रविश्यपश्चात्प्रबुद्धःसन् तानेवदहतीत्यर्थःकिंच एवंकृत्वा ओजायमानः ओजइतिबलनाम स्वयंबलमिवाचरन् कर्तुःक्यङ्सलोपश्चेतिक्यङ्सलोपौ धूमादिभिर्विनाकेवलंतेजो- रूपएवसन् तन्वश्चशुंभते स्वशरीरभूताज्वालाअपि दीपयति पोषयतीत्यर्थः किंच प्रवृद्धज्वालः दुर्गृ- भिः केनचिदपिगृहीतुमशक्यःसन् भीमोन भयंकरोमृगइव सयथादुर्ग्रहःसन् श्रृंगंचालयति तद्वत् अय- मपि श्रृंगाणि श्रृंगवदुन्नताज्वालादविधावअत्यर्थंचालयति धुनोतेर्यङ्लुगन्ताल्लिटिरूपं अस्यचदाध- र्त्यादावितिशब्देन संग्रहोद्रष्टव्यः ॥ ६ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः