मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् ७

संहिता

स सं॒स्तिरो॑ वि॒ष्टिर॒ः सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये ।
पुन॑र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्प॑ः पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥

पदपाठः

सः । स॒म्ऽस्तिरः॑ । वि॒ऽस्तिरः॑ । सम् । गृ॒भा॒य॒ति॒ । जा॒नन् । ए॒व । जा॒न॒तीः । नित्यः॑ । आ । श॒ये॒ ।
पुनः॑ । व॒र्ध॒न्ते॒ । अपि॑ । य॒न्ति॒ । दे॒व्य॑म् । अ॒न्यत् । वर्पः॑ । पि॒त्रोः । कृ॒ण्व॒ते॒ । सचा॑ ॥

सायणभाष्यम्

सोऽग्निः संस्तिरः आच्छन्नः संपूर्वात् स्तृणातेर्मूलविभुजादित्वात्कप्रत्ययः परादिश्छन्दसिबहुलमि- त्युत्तरपदाद्युदात्तत्वम् तथा विस्तिरः कदाचिद्विस्तीर्णःसन् संगृभायति संगृह्ळाति ओषधीः किंच अयंजानन्नेवयजमानार्थं प्रवृद्धेनभवितव्यं अतोज्वालाभिः संयोज्यइत्यधिगच्छन्नेवजानतीः यजमा- नार्थंप्रवृद्धाभिर्भवितव्यमित्यवगच्छन्तीःज्वालाः नित्यः अविच्छिन्नः सन् आशये आशेते आश्रयती- त्यर्थः लोपस्तआत्मनेपदेष्वितितलोपः एवंभूतज्वालाः पुनः पूर्वंप्रवृद्धाएवपुनरपियागयोग्यायथा- भवन्ति तथा वर्धंते देव्यं यागादिव्यवहारयोग्यं स्तुत्यंवाग्निंअपियन्ति प्राप्नुवन्ति यद्यप्यग्निज्वालयो- रेकत्वं तथापि राहोःशिरइतिवदौपचारिकोगन्तृगन्तव्यभावः किंच एवंप्रवृद्धाज्वालाओषधयोवा सचा अग्निनासह पित्रोर्जगत्पालयित्रोः ताभ्यां संभूयद्यावापृथिव्योरन्यत्पूर्वमविद्यमानं तेजोमयंवर्पः रूपंकृण्वते कुर्वन्ति लोकद्वयंस्पृशन्तीत्यर्थः ॥ ७ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः