मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् ८

संहिता

तम॒ग्रुवः॑ के॒शिनी॒ः सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषी॒ः प्रायवे॒ पुनः॑ ।
तासां॑ ज॒रां प्र॑मु॒ञ्चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तम् ॥

पदपाठः

तम् । अ॒ग्रुवः॑ । के॒शिनीः॑ । सम् । हि । रे॒भि॒रे । ऊ॒र्ध्वाः । त॒स्थुः॒ । म॒म्रुषीः॑ । प्र । आ॒यवे॑ । पुन॒रिति॑ ।
तासा॑म् । ज॒राम् । प्र॑ऽमु॒ञ्चन् । ए॒ति॒ । नान॑दत् । असु॑म् । पर॑म् । ज॒नय॑न् । जी॒वम् । अस्तृ॑तम् ॥

सायणभाष्यम्

तमग्निंअग्रुवः अग्रतः स्थिताः यद्वा अङ्गुलिनामैतत् अंगुलयइवाकुटिलाः केशिनीः केशस्थानीयो- र्ध्वभाविकाष्णर्योपेताज्वालाः संरेभिरेहि परिरंभंकुर्वन्तिखलु आलिंगन्ति किंच एवंकुर्वत्यः मम्रुषीः मृताः अंगारभावमापन्नाअपि म्रियतेः क्वसुप्रत्ययान्तात् ङीपिरूपं आयवे आगच्छते अग्नये भर्त्रे पुनः स्वोपद्रवमजानत्यः ऊर्ध्वाः प्रतस्थुः ऊर्ध्वमुखाः उन्नताः प्रतस्थिरे मृतप्रायाअपि प्रत्युत्थानं कृतवत्य- इत्यर्थः एवंकृतवतीषु सतीषु सभर्ताग्निः तासां ज्वालानांजरांवयोहानिंप्रमुंचन् प्रकर्षेणमोचयन् ना- नदत् जरापरिहारायमन्त्रयन्निवात्यर्थं शब्दयन् नकेवलं जराहानिरेव अपितु परंनिरतिशयं असुं प्रा- णं अस्तृतं काष्ठोदकादिप्रक्षेपेणाप्यहिंसितं जीवं प्राणधारणसामर्थ्यं जनयतुन्पादयन्नेति गच्छति ता- सांज्वालानां सन्निधिं प्राप्नोति यथालोकेकाश्चन रमण्योरमणेनसहनिर्भरंक्रीडित्वापश्चात्प्रोषितेत- स्मिन्विरहेणजीर्णाम्रियमाणाः पश्चात्तस्मिन्नागतेसति स्वदौर्बल्यमगणयित्वा संतोषेणपरिष्वंगाय- चेष्टन्ते सभर्ता मन्त्रोच्चारणेनजरामपनीयोचितप्रदानेन प्राणयन्रक्षतीत्ययंभावोऽत्रानुसंधेयः ॥ ८ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः