मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् ११

संहिता

इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑न॒ः प्रेयो॑ अस्तु ते ।
यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वम् ॥

पदपाठः

इ॒दम् । अ॒ग्ने॒ । सुऽधि॑तम् । दुःऽधि॑तात् । अधि॑ । प्रि॒यात् । ऊं॒ इति॑ । चि॒त् । मन्म॑नः । प्रेयः॑ । अ॒स्तु॒ । ते॒ ।
यत् । ते॒ । शु॒क्रम् । त॒न्वः॑ । रोच॑ते । शुचि॑ । तेन॑ । अ॒स्मभ्य॑म् । व॒न॒से॒ । रत्न॑म् । आ । त्वम् ॥

सायणभाष्यम्

हे अग्ने इदमस्मदीयं सोमादिरूपं हविः कीदृशंतत् दुर्धितात् दुष्टंस्थापितात् कठिनात्काष्ठादेरधि- उपरि सुधितं सुहितं सुष्ठुदत्तं मन्मनोमननीयात्प्रियादुचित् तवहृद्यादपि उशब्दोवधारणे चिच्छ- ब्दोऽपिशब्दार्थः ते तव प्रेयः अतिप्रियतमः अस्तु तत्किं इत्याह हेअग्ने तेतव तन्वः शरीरस्य घृतेनो- ज्ज्वलितायाः ज्वालायाः शुचिर्निर्मलं शुक्रंदीप्तं यत्तेजोरोचते तेनसह रत्नं रमणीयं मणिमुक्तादिकं वितरन् त्वं अस्मभ्यं आवनसे अस्मान् संभजस्व वनतेर्व्यत्ययेनात्मनेपदम् ॥ ११ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः