मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् २

संहिता

पृ॒क्षो वपु॑ः पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ ।
तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ॥

पदपाठः

पृ॒क्षः । वपुः॑ । पि॒तु॒ऽमान् । नित्यः॑ । आ । श॒ये॒ । द्वि॒तीय॑म् । आ । स॒प्तऽशि॑वासु । मा॒तृषु॑ ।
तृ॒तीय॑म् । अ॒स्य॒ । वृ॒ष॒भस्य॑ । दो॒हसे॑ । दश॑ऽप्रमतिम् । ज॒न॒य॒न्त॒ । योष॑णः ॥

सायणभाष्यम्

अयमग्निः पृक्षः अन्नसाधकः पाकादिना वपुः वपुष्मान् शरीराभिवृद्धिहेतुः पितुमान् हविर्लक्षणा- न्नयुक्तः नित्यःशाश्वतः ईदृशःसन् प्रथमं पृथिवीस्थानःसन् आशयेआशेते दाहपाकादिलौकिकंकर्मय- ज्ञादिवैदिकंकर्मच निवर्तयन् ध्रुवोभूमौवर्ततइत्यर्थः तथा सप्तशिवासुमातृषुसप्तलोकशिवकरीषु मातृ- स्थानीयासुहितकरीषुवृष्टिषु द्वितीयमाशेते मध्यमस्थानोविद्युद्रूपोवर्तते अस्यवृषभस्य वर्षितुरस्यैव- वैद्युताग्नेः सहायत्वेनसंबन्धिने दोहसेदोग्ध्रे आदित्यस्थोदकस्यवर्षयित्रेआदित्यरश्मये दुहेःकर्तर्यसु- प्रत्ययः तत्प्रवृत्तये तृतीयमाशेते द्युस्थानोवर्तते यद्वा अस्यवृषभस्यवर्षितुः प्रसिद्धस्यादित्यस्यसंब- न्धिनेदोग्ध्रेरश्मये तत्प्रवृत्त्यर्थं आदित्यरश्मयोघर्मकालेभूमिस्थामुदकमाकृष्यसूर्यंप्रापय्यतत्रचिर- कालंधृत्वा पुनरन्तरिक्षंप्राप्यमेघेषुस्थित्वावर्षाकाले प्रवर्षन्तीतिप्रसिद्धं अतोरश्मेर्दोग्धृत्वं ईदृशं त्रिस्थानमग्निंमहाभागं योषणोमिश्रणशीलाः सर्वादिशः जनयन्त उत्पादयन्ति सर्वासुदिक्षुप्रसृत- इत्यर्थः कीदृशंतं दशप्रमतिं दशसुदिक्षुप्रकृष्टमननवन्तं पूज्यत्वाय यद्वा मथनकाले दशभिरङ्गुली- भिरुत्पन्नं लोकत्रयेदशदिक्षुचव्याप्तमित्यर्थः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः