मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् ३

संहिता

निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नास॒ः शव॑सा॒ क्रन्त॑ सू॒रयः॑ ।
यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥

पदपाठः

निः । यत् । ई॒म् । बु॒ध्नात् । म॒हि॒षस्य॑ । वर्प॑सः । ई॒शा॒नासः॑ । शव॑सा । क्रन्त॑ । सू॒रयः॑ ।
यत् । ई॒म् । अनु॑ । प्र॒ऽदिवः॑ । मध्वः॑ । आ॒ऽध॒वे । गुहा॑ । सन्त॑म् । मा॒त॒रिश्वा॑ । म॒था॒यति॑ ॥

सायणभाष्यम्

ईंएनमग्निं यद्यस्मात्कारणात् महिषस्य महन्नामैतत् महिषःअभ्वःऋभुक्षाइतितन्नामसुपाठात् महतोयज्ञस्यबुध्नात् मूलात् आधानादारभ्यवर्पसःरूपनामैतत् रूपस्यउपक्रमोपसंहारात्मकस्य सिद्ध- येईशानासःस्वकीयव्यापारसमर्थाः सूरयोमेधाविनःऋत्विजःशवसाबलेन मन्त्रादिरूपेणशरीरेणवा- निष्क्रन्त निष्किउर्वन्तिसाधयन्ति उत्पादयन्ति काष्ठात् यद्वा एनमग्निंबुध्नात् आदितः मथनादारभ्य- महिषस्यवर्पसः महतोरूपस्य आहुतिस्वीकारसमर्थस्यसिद्धये निष्कुर्वन्ति करोतेश्छान्दसेलुङि मन्त्रे- घसेतिच्लेर्लुक् व्यत्ययेनान्तादेशः किंच यत् यं ईं एनमेवाग्निंप्रदिवः पुराणात् अनादिकालमारभ्यन- केवलमिदानीमेवेत्यर्थः पूर्ववदिदानींमध्वोमधुनः मधुसदृशस्यहविषः आधवेआधवने प्रक्षेपेनिमित्ते- सति गुहासन्तं गुहायांवेद्यांकाष्ठेनिगूढंसंतंमातरिश्वाअन्तरिक्षे चेष्टमानोवायुः अनुअनुक्रमेण मथायति चालयति उद्बोधयतीत्यर्थः यद्वा मातारि फलस्यमातरियागेश्वस्तिचेष्टतइतिमातरिश्वायजमानोगुहा- सन्तं अरण्योर्निगूढंसंतं प्रादुर्भावाय अनुक्रमेणमथायति मश्नाति उत्पादयतीत्यर्थः यस्मादेवंरूपं तस्मात्स्तोतव्यइत्यर्थः ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः