मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् ४

संहिता

प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति ।
उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचि॑ः ॥

पदपाठः

प्र । यत् । पि॒तुः । प॒र॒मात् । नी॒यते॑ । परि॑ । आ । पृ॒क्षुधः॑ । वी॒रुधः॑ । दंऽसु॑ । रो॒ह॒ति॒ ।
उ॒भा । यत् । अ॒स्य॒ । ज॒नुष॑म् । यत् । इन्व॑तः । आत् । इत् । यवि॑ष्ठः । अ॒भ॒व॒त् । घृ॒णा । शुचिः॑ ॥

सायणभाष्यम्

यद्यस्मात्पितुः अन्नस्य पशुलक्षणस्य षष्ठीस्थानेप्रथमा तस्यप्रमात्परमत्वाद्धेतोः उत्कृष्टत्वायेत्यर्थः तदर्थंप्रपरिणीयते प्रकर्षेणपरितोनीयते पर्यग्निक्रियतइत्यर्थः यद्वा पितुः उत्पादकात् परमात् उत्कृ- ष्टात् गार्हपत्थलक्षणस्याग्नेःसकाशादाहवनीयंप्रति प्रपरिणीयते प्रकर्षेणनीयते पर्यनर्थकः किंच प्रुक्षुधः पशुपुरोडाशादिषुदाहमध्येधीयमानाः यद्वा प्रशब्दस्यसंप्रसारणं क्षुधबुभुक्षायांक्विप् प्रक्षो- ध्याः प्रकर्षेणबुभुक्षिताः भोक्तुमिष्यमाणावीरुधः दंसुदंतेषु मध्येआरोहति आरोहन्ति प्रविशन्ती- त्यर्थः यद्यस्मात् उभाउभौ अध्वर्युयजमानौ उभेअरणीवाअस्यग्नेर्जनुषं जन्मौत्पत्तिंइन्वतः व्याप्नुतः स्वीकुरुतइत्यर्थः इविव्याप्तौ इदित्त्वान्नुम् आदित् अतएवकारणात् शुचिः शुद्धोयमग्निः घृणायजमा- नेष्वनुग्रहेण यद्वा घृणाघृणः दीप्तिमान् मत्वर्थोलुप्यते दीप्त्यावा यविष्ठोयुवतमोभवत् संपन्नः स्वीका- रसमर्थोभवदित्यर्थः ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः