मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् ५

संहिता

आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं॑स्यमान उर्वि॒या वि वा॑वृधे ।
अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥

पदपाठः

आत् । इत् । मा॒तॄः । आ । अ॒वि॒श॒त् । यासु॑ । आ । शुचिः॑ । अहिं॑स्यमानः । उ॒र्वि॒या । वि । व॒वृ॒धे॒ ।
अनु॑ । यत् । पूर्वा॑ । अरु॑हत् । स॒ना॒ऽजुवः॑ । नि । नव्य॑सीषु । अव॑रासु । धा॒व॒ते॒ ॥

सायणभाष्यम्

अयमग्निः आशुचिर्दीप्तःआदित् पूर्वमन्त्रेयविष्ठोभवदित्युक्तत्वात् तदनन्तरमेव मातॄरुत्पादयित्रीः मातृस्थानीयादशदिशःआअविशत् सर्वतःप्रविशति पूर्वत्रदशप्रमतिंजनयन्तयोषणइत्युक्तत्वात् दिशां- मातृत्वं दिक्षुप्रकाशेनव्याप्तइत्यर्थः मातरोविशेष्यन्ते यासुमातृषु अहिंस्यमानः परैरपीड्यमानः उर्वि- याउरुअतिप्रभूतंविवावृधे विविधंप्रवृद्धोभवत् तास्वाविशत् यथालोकेकश्चित्तेजस्वी जनन्यास्तनपा- नपरपीडापरिहारादिभिःसम्यक्पोषितोलोकेप्रकाश्यपुनरागत्यमातरमालिंगति तद्वदितिभावः क- स्मिन्कालेइतितत्राह—यत् यदासनाजुवः दीर्घकालवियोगिन्यः स्थापनकालएवप्रक्षिप्ताः अतएवपू- र्वाः प्रथमभाविनीरोषधीः अनुक्रमेणअरुहत् आरोहति नवतरासुअतएवावरासुपूर्वापेक्षयानिकृष्टासु पश्चाद्भाविनीष्वोषधीषु निधावते नितरांनीचैर्वागच्छति अन्तः प्रविशतीत्यर्थः यदाकाष्ठानामध- स्तादुपरिष्टाच्चपविश्यज्वलति तदादिक्षुप्रकाशितोभवतीत्यर्थः ॥ ५ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः