मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् ७

संहिता

वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः ।
तस्य॒ पत्म॑न्द॒क्षुषः॑ कृ॒ष्णजं॑हस॒ः शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥

पदपाठः

वि । यत् । अस्था॑त् । य॒ज॒तः । वात॑ऽचोदितः । ह्वा॒रः । न । वक्वा॑ । ज॒रणाः॑ । अना॑कृतः ।
तस्य॑ । पत्म॑न् । ध॒क्षुषः॑ । कृ॒ष्णऽजं॑हसः । शुचि॑ऽजन्मनः । रजः॑ । आ । विऽअ॑ध्वनः ॥

सायणभाष्यम्

यत् यदायमग्निर्वातचोदितः वायुनाप्रेरितः तृतीयाकर्मणीतिपूर्वपदप्रकृतिस्वरत्वं यजतः सर्वैर्य- ष्टव्यः यष्टुंयोग्यःसन् व्यस्थात् वितिष्ठते सर्वतोव्याप्तोभवति तत्रदृष्टान्तः—अनाकृतःअनिवारितः अ- प्रतिहतः प्रसरः वक्वा बहुवक्ता वचेरन्येभ्योपिदृश्यन्तइतिवनिप् दृशिग्रहणात्कुत्वं ह्वारोनकुटिलइव विदूषकादिरिव ह्वरतेर्ण्यन्तात्पचाद्यच् सयथाजरणाः स्तुतीर्वितिष्ठते विविधंकुर्वन्वर्तते तद्वदयम- प्यनाकृतः प्रतिबद्धप्रसरोव्यवस्थितः तदा तस्याग्नेः पत्मन् पतने मार्गेयज्ञरूपे रजोरंजनात्मकोलोक- आस्थात् आतिष्ठति सर्वतआश्रयति अग्नौबहुधायजतीत्यर्थः कीदृशस्य तस्यधक्षुषःदहतः दहेर्लिटःक्वसुः कृष्णजंहसः कृष्णमार्गस्य पुनःपुनर्गम्यतइतिजंहामार्गः हंतेर्यङ्लुगन्तात्कर्मण्यसुन् कुत्वाभावश्छान्द- सः शुचिजन्मनः मन्त्रसहितारण्योरुत्पन्नत्वात् व्यध्वनः विविधज्वालस्य अनियतमार्गस्य ॥ ७ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः