मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् ८

संहिता

रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे॑भिररु॒षेभि॑रीयते ।
आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रय॒ः शूर॑स्येव त्वे॒षथा॑दीषते॒ वयः॑ ॥

पदपाठः

रथः॑ । न । या॒तः । शिक्व॑ऽभिः । कृ॒तः । द्याम् । अङ्गे॑भिः । अ॒रु॒षेभिः॑ । ई॒य॒ते॒ ।
आत् । अ॒स्य॒ । ते । कृ॒ष्णासः॑ । ध॒क्षि॒ । सू॒रयः॑ । शूर॑स्यऽइव । त्वे॒षथा॑त् । ई॒ष॒ते॒ । वयः॑ ॥

सायणभाष्यम्

अयमग्निः शिक्वभीरज्जुभिः कृतः बद्धोरथोन रथइव सयथा स्वीयैश्चक्रादिभिरङ्गैरीयते तद्वत् यातःस्थापितःसन् अरुषेभिर्गमनशीलैरंगेभिः ज्वालादिरूपैरवयवैर्द्यामन्तरिक्षं आज्येन हृष्टःसन् ईयते गच्छति ईङ्गतौ आत् प्रवृद्भ्यनन्तरं अस्याग्नेस्तेसूरयः सरणयो मार्गाः कृष्णासः कृष्णवर्णा- भवन्ति यतएवंभवन्ति तदर्थं धक्षि दहतिकाष्ठान् पुरुषव्यत्ययः छान्दसः शपोलुक् किंच ज्वलित- स्याग्नेः त्वेषथात् दीप्तात्तेजसःसकाशात् वयः गमनवन्तः पक्षिमृगादयः ईषते गच्छन्ति ईषगत्यादौ बहुलंछन्दसीतिशपोलुक् पलायन्ते तत्रदृष्टान्तः—शूरस्यत्वेषथाद्वयइव कस्यचिद्विक्रान्तस्य दीप्ता- त्तेजसःसकाशात् भीत्यापलायमानाइव एवमन्तरिक्षंस्पृशन् सर्वतोदहतीति सर्वदादावाग्निरूपेण- स्तूयते ॥ ८ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः