मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् ९

संहिता

त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा॑श॒द्रे अ॑र्य॒मा सु॒दान॑वः ।
यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा॑ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा॑यथाः ॥

पदपाठः

त्वया॑ । हि । अ॒ग्ने॒ । वरु॑णः । धृ॒तऽव्र॑तः । मि॒त्रः । शा॒श॒द्रे । अ॒र्य॒मा । सु॒ऽदान॑वः ।
यत् । सी॒म् । अनु॑ । क्रतु॑ना । वि॒श्वऽथा॑ । वि॒ऽभुः । अ॒रान् । न । ने॒मिः । प॒रि॒ऽभूः । अजा॑यथाः ॥

सायणभाष्यम्

हेअग्ने त्वयाखलु वरुणोरात्र्यभिमानीदेवोधृतव्रतःस्वीकृतवर्षणादिकर्माभवति तथामित्रोहरभि- मानीदेवः शाशद्रेशातयतितमः शदॣशातने छान्दसोलिङ् बहुलंछन्दसीतिरुट् तुजादित्वादभ्यासदीर्घः तथार्यमाउभयोर्मध्यवर्तीदेवः सुदानवःशोभनदानोभवति व्यत्ययेनबहुवचनं यद्वा एतेवरुणादयः सु- दानवःशोभनदानाः स्वस्वकार्यकर्तारः त्वयाहि शाशद्रे तीक्ष्णीक्रियन्ते हिशब्दोमन्त्रान्तरप्रसिद्धिद्यो- तनार्थः त्वमग्नेवरुणोजायसइतिहिमन्त्रान्तरम् । शदेःकर्मणिछान्दसोलिट् इरयोरेइतिरेभावः हिचेति- निघाताभावः वरुणादीनामग्न्यायत्तत्वेउपपत्तिमाह—यद्यस्मात्कारणात् हेअग्ने सीं सर्वतः क्रतुना- कर्मणाविश्वथाविश्वइवविश्वात्मकइवविभुः मित्रार्यमात्मनासर्वव्यापीपरिभूःस्वतेजसासर्वतःपरिभा- वितासन् अनुअनुक्रमेणअजायथाः जायसेप्रादुर्भवसि तत्रदृष्टान्तः—अरान् रथस्यचक्रान् नेमिर्न बा- ह्यवलयइव सयथाव्याप्यतिष्ठति तद्वदयमग्निर्वरुणादीन् व्याप्यतिष्ठति ॥ ९ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः