मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् १०

संहिता

त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि ।
तं त्वा॒ नु नव्यं॑ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । रत्न॑म् । य॒वि॒ष्ठ॒ । दे॒वऽता॑तिम् । इ॒न्व॒सि॒ ।
त्वम् । त्वा॒ । नु । नव्य॑म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग॑म् । न । का॒रे । म॒हि॒ऽर॒त्न॒ । धी॒म॒हि॒ ॥

सायणभाष्यम्

हेअग्नेयविष्ठ युवतम त्वं शशमानायत्वां स्तुवते शशमानःशंसमानइतियास्कः । सुन्वते तदर्थम- भिषवंकुर्वते यजमानाय तद्यागार्थं रत्नंरमणीयंहविः देवतातिं देवेषुतायमानं विस्तार्यमाणं इन्वसि- व्याप्नोषि अस्मत्प्रत्तंहविः देवान्प्रापयसीत्यर्थः इन्वतिर्व्याप्तिकर्मा इन्वतिनक्षतीति तन्नामसुपाठात् हेसहसोयुवन् युवशब्देनोत्पत्तिर्लक्षते मथनकालेबलेनोत्पन्नबलस्यमिश्रयितः वा यद्वा सहसस्पुत्र युवन् नित्यतरुण महिरत्न अस्मत्प्रदेयमहद्रमणीयधन नव्यं नवतरं स्तुत्यंवा तंतादृशं हविर्भुजं त्वा- त्वां वयं यजमानाः कारेशब्देस्तोत्रलक्षणे नुक्षिप्रंधीमहि स्थापयामः हविःप्रदानसमये क्षिप्रमेवस्तु- मइत्यर्थः तत्रदृष्टान्तः—भगंन आदित्यमिव यद्वा महान्तं राजानमिव तंयथास्तुवन्तितद्वत् ॥ १० ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः