मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् १२

संहिता

उ॒त नः॑ सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः ।
स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥

पदपाठः

उ॒त । नः॒ । सु॒ऽद्योत्मा॑ । जी॒रऽअ॑श्वः । होता॑ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्रऽर॑थः ।
सः । नः॒ । ने॒ष॒त् । नेष॑ऽतमैः । अमू॑रः । अ॒ग्निः । वा॒मम् । सु॒ऽवि॒तम् । वस्यः॑ । अच्छ॑ ॥

सायणभाष्यम्

उतशब्दोप्यर्थः सचसंभावनायां सोऽग्निः नोऽस्मदीयमाह्वानंउतशृणवत् अपिनामश्रृणुयात् यद्वा नोऽस्मान् श्रावयेत् देवेषुमध्येप्रख्यापयेत् श्रृणोतेर्लेट्यडागमः कीदृशोऽयं सुद्योत्मा सुद्योतमानः द्युत- दीप्तौ अन्येभ्योऽपिदृश्यन्तइतिमनिन् जीराश्वः शीघ्रगमनाश्वः होतादेवानामाह्वाता मन्द्रः मदनशी- लः चन्द्ररथः सुवर्णमयरथोपेतः किंचायं अमूरःअमूढवलः वस्यः वसनीयः सप्रसिद्धोऽग्निर्नेषतमैः अ- त्यर्थंनेतृभिःकर्मभिःस्तोत्रैर्वानोऽस्मान् उतनेषत् अपिनामनयेत् यज्ञस्थपारंप्रापयेत् नयतेर्लेट्यडागमः सिब्बहुलमितिसिप् किमर्थं वामंननीयं सुवितं सुष्ठुप्राप्यं सर्वैःकांक्षणीयं स्वर्गंअच्छआभिमुख्येनप्राप्तुं- नेषत् ॥ १२ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः