मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् २

संहिता

घृ॒तव॑न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् ।
य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥

पदपाठः

घृ॒तऽव॑न्तम् । उप॑ । मा॒सि॒ । मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् ।
य॒ज्ञम् । विप्र॑स्य । माऽव॑तः । श॒श॒मा॒नस्य॑ । दा॒शुषः॑ ॥

सायणभाष्यम्

हेतनूनपात् तनूनपादाज्यमितिकात्थक्यपक्षे तन्वोगावः भोगानांतासुजायमानत्वात्ताभ्यउत्पन्नं- क्षीरंक्षीरात्सर्पिरिति आज्यस्यनप्तृत्वं तद्वान्यज्ञः अग्निपक्षे आपस्तन्वउच्यन्ते ताभ्यओषधिवनस्पतयः तेभ्योऽग्निरितिनप्तृत्वं अरणीभ्यामितिभावः एतन्नामक हेअग्ने विप्रस्यमेधाविनः शशमानस्य शंसमा- नस्य त्वांस्तुवतः दाशुषोहविर्दत्तवतोमावतोमत्सदृशस्य यजमानस्य युष्मदस्मद्भ्यांछन्दसिसादृश्यइ- तिवतुप् आसर्वनाम्नइत्यात्वं घृतवन्तं क्षरदाज्योपेतं मधुमन्तंमाधुर्योपेतं सोमादिमधुरद्रव्येण तद्वन्तं यज्ञं उपउपेत्य मासि निर्मिमीषे मितोभवसिवा संपूर्तिपर्यन्तं तिष्ठसीत्यर्थः मामानेआदादिकः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०